कथमभ्यसनीयमष्टाध्यायीसूत्रम् – तृतीयो भागः

अस्य तृतीयभागस्य दृक्-श्राव्य-प्रस्तुतिः <https://youtu.be/Ajn9MNZIGJ0> इत्यत्र प्रस्थापितास्ति | तस्याः आलेखः निम्नमिव |

 

  • अधुना तृतीयो भागः |
  • अष्टाध्याय्याः सूत्राभ्यसनपूर्वमिदमपि ज्ञेयं यदष्टाध्याय्याः विरचने पाणिनिना काश्चन संज्ञाः स्वीयया शैल्या विरचिताः सन्ति | 
  • यथा अस्ति सूत्रम् अचोऽन्त्यादि टि (१’१’६४) । 
  • पदच्छेदैः – अचः (६’१) अन्त्य-आदि (१’१) टि (१’१) 
  • अर्थः – कस्मिन्नपि शब्दे यः अन्त्यः अच् भवति तम् आदौ गृहीत्वा अन्त्यवर्णपर्यन्तं यत्किमपि भवति तत् टि-इति मन्तव्यम् |
  • रामम्-इत्यत्र अम्-इति अंशः टि-संज्ञामर्हति |
  • रामस्य-इत्यत्र अकारः एव अन्तिमः स एव टि-संज्ञामर्हति |
  • पृच्छ्-इत्यत्र ऋच्छ्-इति अंशः टि-संज्ञामर्हति | अस्मिन्नंशे त्रयः वर्णाः ऋ-च्-छ् |
  • मुनिः-इत्यत्र इः विसर्गसहितः इ-कारः | सः टि-संज्ञामर्हति |
  • कुतूहलं भवेत् किमर्थमेतावती संज्ञा आचार्येण संज्ञिता |
  • अस्ति सा प्रयुक्ता टेः 6|1|143, वाक्यस्य टेः प्लुतः उदात्तः 8|2|82 , टित आत्मनेपदानां टेरे 3|4|79 एतावत्सु सूत्रेषु | एतेषां सूत्राणां विवेचनंस्तु न करिष्यामः |
  • इत्थमेव सूचनीयमासीद्यत् पाणिनिना स्वीयया शैल्या काश्चन संज्ञाः प्रोक्ताः अष्टाध्याय्याम् | तासां ज्ञानमावश्यकं सूत्राणामभ्यसने |
  • संज्ञानां निर्मितये विविधाः संज्ञका अपि प्रयुक्ताः |
  • तद्विधानां संज्ञकानामपि व्याकरणीयं नामास्ति “इत्” इति |
  • इतः (१’३’२) तः (१’३’८) पर्यन्तेषु सप्तसु सूत्रेषु व्याख्यातानि सन्ति |
  • (१’३’२) तः (१’३’८) पर्यन्तेषु सूत्रेषु ये इतः व्याख्याताः तेषां प्रक्रियासु लोपः भवति इति (१’३’९) तस्य लोपः इत्यनेन सूत्रेण निर्दिष्टम् |
  • एतेषां सर्वेषां सूत्राणामत्रैव अभ्यसनं साधु भवेत् | 
  • (१’३’२) उपदेशेऽजनुनासिक इत् ।
  • पदच्छेदैः – उपदेशे (७’१) अच् (१’१) अनुनासिकः (१’१) इत् (१’१) |  
  • उपदेशे-इति कुत्र ? “उपदेश”-इत्यपि एका संज्ञा |
  • पाणिनिना अष्टाध्याय्याम् काश्चन संज्ञा उपयोजिताः परन्तु अष्टाध्याय्याम् नैव संज्ञिताः | 
  • किं न संज्ञिताः ? प्रायः वैयाकरणेषु सुविख्याता इति न संज्ञिताः ?! 
  • उपदेशविषये कथ्यते श्लोकः ⇒ प्रत्यया शिवसूत्राणि आदेशा आगमास्तथा | धातुपाठो गणपाठ उपदेशाः प्रकीर्तिताः ||
  • सूत्रार्थः – उपदेशे कोऽपि अनुनासिकः अच् भवति चेत् सः इत् भवतीति ज्ञेयम् | 
  • उदाहरणार्थम् – अस्ति प्रत्ययः प्रथमैकवचनस्य सुँ इति | अत्र यः अनुनासिकः उँकारोऽस्ति सः इत् अस्ति | प्रक्रियासु तस्य लोपः भवति | अतः प्रत्ययस्तु स्-इत्येव प्रतीयते | सुँ इति तस्य प्रत्ययस्य व्याकरणीयं नाम |
  • (१’३’३) हलन्त्यम् |
  • पदच्छेदैः – हल् (१’१) अन्त्यम् (१’१)
  • अनुवृत्तिभिः सह संपूर्णं सूत्रवाक्यम् – उपदेशे हलन्त्यम् इत् (भवति)
  • सूत्रार्थः स्पष्टः एव |
  • उदाहरणम् – प्रत्येकं शिवसूत्रं हलन्त्यम् भवन्ति | तत् अन्त्यं हल् इत्-संज्ञामर्हति |
  • अस्ति सप्तमीबहुवचन-प्रत्ययः सुप् इति | अत्र प्-वर्णः अन्त्यं हल् भवति इत्-संज्ञामर्हति च | प्रक्रियासु प्-कारस्य लोपः भवति | प्रत्ययस्तु सु-इत्येव प्रतीयते |
  • (१’३’४) न विभक्तौ तुस्माः |
  • पदच्छेदैः – न (०’०) विभक्तौ (७’१) तु-स्-माः (१’३)
  • अनुवृत्तिभिः सह संपूर्णं सूत्रवाक्यम् – उपदेशे (तत्र) विभक्तौ (ये) तुस्माः (भवेयुः तेषु) हलन्त्य-(वत् सत्स्वपि) इतः न (भवन्ति)
  • दृश्यताम् विभक्तौ इत्युक्ते कस्मिन्नपि सुप्प्रत्यये तिङ्-प्रत्यये वा |
  • तथैव तुस्माः इतिसामासिकशब्दः | तु (इत्युक्ते किमपि त्-वर्गीयं व्यञ्जनम्) स्-कारः म्-कारश्च एतेषां इतरेतर-द्वन्द्वः |
  • सन्ति विवृताः सुप्प्रत्ययाः (४’१’२) इत्यस्मिन् सूत्रे तिङ्-प्रत्ययाः (३’४’७८) इत्यस्मिन् | 
  • तेषु प्रथमाबहुवचनस्य प्रत्ययोऽस्ति जस् | अत्र स्-कारः हल् भवति अन्त्यश्चास्ति | सत्यपि सः इत् न मन्तव्यः | तृतीयाचतुर्थीपञ्चमीनां द्विवचनस्य प्रत्ययोऽस्ति भ्याम् | अत्र म्-कारः हल् भवति अन्त्यश्चास्ति | सत्यपि सः इत् न मन्तव्यः | लोपः न करणीयः | इतीदं निषेधसूत्रम् |
  • (१’३’५) आदिर्ञिटुडवः | 
  • पदच्छेदैः – आदिः (१’१) ञि-टु-डवः (१’३) |
  • अनुवृत्तिभिः सह संपूर्णं सूत्रवाक्यम् – उपदेशे आदिः ञिटुडवः इतः भवन्ति |
  • ञिटुडवः इति सामासिकशब्दः ञि, टु, डु एतेषां इतरेतर-द्वन्द्वः |
  • सूत्रार्थः – उपदेशे ञि, टु, डु आदौ भवन्ति चेत् ते इतः भवन्ति | 
  • डुकृञ् इत्यत्र डु आदौ अस्ति, सः एकः इत् | ञ् इति अन्त्यं हल् अस्ति | तदपि इत् अस्ति | द्वयोः इतोः लोपः भवति | डुकृञ् इति कृ-धातोः व्याकरणीयं नाम | धातुस्तु कृ-इत्येव व्यवह्रियते | 
  • (१’३’६) षः प्रत्ययस्य |
  • न कोऽपि सन्धिः अत्र | अनुवृत्तिभिः सह संपूर्णं सूत्रवाक्यम् – प्रत्ययस्य आदौ ष्-कारः भवति चेत् सः इत् भवति, प्रक्रियासु तस्य लोपो भवति | ष्यङ् , ष्वुन्, ष्फक् – एतेषु प्रत्ययेषु षकारस्य इत्संज्ञा भवति |
  • (१’३’) चुटू | सामासिकशब्दोयम् चु च टु च एतयोः इतरेतरद्वन्द्वः | अतः (१’२) । 
  • अनुवृत्तिभिः सह संपूर्णं सूत्रवाक्यम् – उपदेशे आदौ चवर्गीयं ट-वर्गीयं किमपि व्यञ्जनं भवति चेत् तत् इत् भवति | प्रक्रियासु तस्य लोपो भवति | 
  • ज्ञेयं यत् चु टु एतेऽपि पाणिनीये संज्ञे | चु इति च्-वर्गस्य तथा च्-वर्गीयानां व्यञ्जनानां सामूहिकं नाम | टु इत्यपि ट्-वर्गस्य तथा ट्-वर्गीयानां व्यञ्जनानां सामूहिकं नाम | 
  • उदाहरणार्थं दृश्यतामस्ति तृतीयैकवचनस्य प्रत्ययः टा-इत्युक्तः (४’१’२)-सूत्रे | अत्र यः आदि-ट्-कारः सः इत् भवति | प्रक्रियासु तस्य लोपो भवति | प्रत्ययः आ-इति प्रतीयते |
  • (१’३’८) लशक्वतद्धिते | सामासिकशब्दोयम् ल्-श्-कु-अतद्धिते (७’)
  • अनुवृत्तिभिः सह सूत्रवाक्यम् सूत्रार्थो वा – अतद्धिते उपदेशे आदौ यत्किमपि ल्-श्-कु (क्-वर्गीयं व्यञ्जनं) भवेत् तत् इत् भवति | प्रक्रियासु तस्य लोपो भवति |
  • अस्ति कृत्-प्रत्ययः क्त्वा इति | अत्र अस्त्यादौ क्-कारः | सः इत् अस्ति | प्रक्रियासु तस्य लोपो भवति | प्रत्ययस्तु त्वा-इत्येव प्रतीयते | 
  • कासुचन संज्ञासु एकाधिका इतः प्रयुक्ताः भवन्ति | यथा पूर्वमप्युक्तम् डुकृञ् इत्यत्र डु आदौ अस्ति, सः एकः इत् | ञ् इति अन्त्यं हल् अस्ति | तदपि इत् अस्ति | 
  • अस्ति धातुः दृशिँर् (प्रेक्षणे) | अत्र द्वौ इतौ | इँ इति अनुनासिकः अच् तथा रेफः अन्त्यश्च हल् च | प्रक्रियासु द्वयोरपि लोपः भवति | धातुः दृश् इत्येव प्रयुज्यते |
  • अस्ति सूत्रम् – (१’१’७१) आदिरन्त्येन सहेता | अभ्यसनमर्हत्येतत् | 
  • पदच्छेदैः – आदिः (१’१) अन्त्येन (३’१) सह (०’०) इता (३’१) 
  • सूत्रार्थः अन्वयेन सिध्यति | आदिः अन्त्येन इता सह (संज्ञां जनयति) |
  • इता-इति इत्-इत्यस्य प्रातिपदिकस्य तृतीयैकवचनम् | 
  • इत् इति किम् ? तत्सर्वमधुनैव चर्चितम् |
  • शिवसूत्राणां सर्वे अनुबन्धाः अन्त्याश्च हलश्च | अतः ते सर्वे इतः | 
  • शिवसूत्रस्थितं कमपि वर्णं आदौ कृत्वा अग्रिमैः इद्भिः प्रत्याहाराः सिध्यन्ति | ते सर्वे आदिरन्त्येन सहेता-इत्येनं सूत्रमेव अनुसरन्ति |
  • अवधेयं प्रायः यत्पाणिनिना अष्टाध्याय्यां प्रत्याहार-इति कापि संज्ञा नैव उक्ता | 
  • अस्ति सूत्रम् – सुप्तिङन्तं पदम् (१’४’१४) । अनेन सूत्रेण पदम्-इति संज्ञा संज्ञितास्ति | यस्य अन्ते सुप् वा तिङ् वा अस्ति तत्पदम् | सुप् इति किम् ? तिङ् इति किम् ? द्वेऽपि संज्ञे आदिरन्त्येन सहेता-इत्येनं सूत्रमनुसृत्य प्राप्ये (४’१’२) तथा (३’४’७८) एताभ्यां सूत्राभ्याम् |
  • सूत्रम् (४’१’२) – स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ | अत्र आद्याक्षरं सु इति | प्-इति अन्त्यः इत् | एवं सिध्यति सुप्-इति संज्ञा |
  • सूत्रम् (३’४’७८) – तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् | अत्र आद्याक्षरमस्ति ति अन्त्यः इत् अस्ति ङ् | एवं सिध्यति संज्ञा तिङ् |
  • जानीमः नदी इति जलप्रवाहः | तथापि पाणिनिना अयं शब्दः ई-कारान्तानां  स्त्रीलिङ्ग-शब्दानां संज्ञा इति उपयुक्तोऽस्ति | 
  • कथमभ्यसनीयमष्टाध्यायीसूत्रमित्यस्याः  दृक्-श्राव्य-शृङ्खलायाः तृतीये भागेस्मिन् कथनीयमासीद्यदष्टाध्याय्यां सन्ति बहवः संज्ञाः | 
  • काश्चन पाणिनिना स्वीयया शैल्या संज्ञिताः | 
  • कासांश्चन संज्ञानां व्यावहारिकार्थात् व्याकरणीयार्थः भिन्नः | 
  • काश्चन इतां प्रयोगेन वा आदिरन्त्येन सहेता इदं सूत्रमनुसृत्य वा सिद्धाः | 
  • काश्चन प्रचलिताः इति नैव संज्ञिताः | 
  • तासां सर्वासां ज्ञानंस्तु प्राथमिकतया आवश्यकं सूत्राणामभ्यसने |

 

|| इति शुभम् ||

-o-O-o-

 

 

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s