कथमभ्यसनीयमष्टाध्यायीसूत्रम् – प्रथमो भागः

अस्य दृक्-श्राव्यप्रस्तुतिः <https://youtu.be/OXLy1xryycs> श्रूयते पठ्यते च |तस्य पाठः निम्नमिव =>

  • अस्याः प्रस्तुतेः “कथमभ्यसनीयमष्टाध्यायीसूत्रम्” इति शीर्षकम् एकशब्दवत् दृश्यते, तत्तु वस्तुतः “कथम् अभ्यसनीयम् अष्टाध्यायी-सूत्रम्” एतैः चतुर्भिः शब्दैः संहितम् |
  • कस्यापि संस्कृतवाक्यस्य अभ्यसने तत्रस्थितानां शब्दानाम् एकैकशः दर्शनम् आवश्यकम् | वाक्ये स्थितानां शब्दानाम् एकैकशः स्पष्टीकरणम् पदच्छेदनम् इति कथ्यते | अष्टाध्याय्याः सूत्राणामभ्यसनायापि तदावश्यकम् | 
  • किमिति अष्टाध्यायी-सूत्रम् ? का अष्टाध्यायी ? किमर्थमभ्यसनीया अष्टाध्यायी ?
  • अष्टाध्यायी प्रायः ख्रिस्ताब्दस्य पञ्चशताब्दपूर्वम् पाणिनिमुनिना विरचिता | पाणिनिमुनिः वैय्याकरणः | 
  • अष्टाध्याय्यां संस्कृतभाषायाः प्रायः समग्रं व्याकरणं निबद्धं चतुःसहस्रतावत्सु सूत्रेषु |
  • संस्कृतभाषायाः समग्रव्याकरणस्याभ्यासः अष्टाध्याय्याः अभ्यासेन विना सिद्धतां न प्राप्नोति | 
  • अष्टाध्याय्याम् अष्ट अध्यायाः, स्पष्टमेव | प्रत्येकस्मिन्नध्याये चत्वारः पादाः | 
  • प्रत्येकस्य अष्टाध्यायीसूत्रस्य निर्देशाय अध्याय-क्रमाङ्कः पाद-क्रमाङ्कः सूत्र-क्रमाङ्कः त्रयोऽपि देयाः | यथा अस्ति सूत्रम् “तस्य लोपः (पा. १’३’९)” इति | सूत्रमिदम् पाणिनेः प्रथमाध्यायस्य तृतीये पादे नवमम् |
  • अष्टाध्यायीसूत्रस्य पदच्छेदनेन ये शब्दाः स्पष्टीभवन्ति तेषां विभक्तिवचनान्वितं व्याकरणम् ज्ञातव्यम् |
  • यथा, अस्ति सूत्रम् – नाज्झलौ (१’१’१०) ⇒ पदच्छेदनेन “न अज्झलौ (अच्-हलौ)”
  • “न”-शब्दः अव्ययम् | अतः तस्य विभक्तिवचनान्वितं व्याकरणम् ०/० इत्येव |
  • “अज्झलौ (अच्-हलौ)”-शब्दः अज्झल्-इत्यस्य प्रातिपदिकस्य प्रथमाविभक्त्यां द्विवचनम् | तत् (१/२) इति संक्षेपेण लिख्यते ।
  • प्रश्नः उत्तिष्ठति अज्झलौ (अच्-हलौ) किं न भवतः ?
  • उत्तरं पूर्वस्मिन् “तुल्यास्यप्रयत्नं सवर्णम् (१’१’९)”-इत्यस्मिन् सूत्रे वर्तमानेन सवर्ण-इत्यनेन शब्देन ज्ञातव्यम् |
  • नाज्झलौ (१’१’१०) इत्यस्य सूत्रस्य अर्थमवगन्तुं पूर्वस्मात् सूत्रात् सवर्ण-शब्दस्य अनुवृत्तिः आवश्यकी |
  • कस्यापि सूत्रस्य अर्थमवगन्तुं पूर्वेभ्यः केभ्यः सूत्रेभ्यः के के शब्दाः अनुवर्तनीयाः तदवश्यं चिन्तनीयम् |
  • उचितशब्देषु अनुवृत्तेषु अनुवृत्तशब्दाः अन्वयार्थं रूपान्तरम् अर्हन्ति चेत् समीचीनं रूपान्तरं कृत्वा सूत्रस्य अन्वयः रचनीयः |
  • यथा सवर्ण-शब्दमनुवृत्त्य अन्वयः भवति “अज्झलौ सवर्णौ न” |
  • अन्वये कृतेऽपि सूत्रार्थमवगन्तुं अन्वयस्थितस्य प्रत्येकस्य शब्दस्य अभ्यासः आवश्यकः |
  • अज्झलौ (अच्-हलौ) शब्दः सामासिकः | अच् च हल् च एतयोः इतरेतर-द्वन्द्वः अज्झलौ |
  • ततः अच् इति किम् ? हल् इति किम् ? द्वावपि प्रत्याहारौ | अच्-प्रत्याहारे सर्वे स्वराः समाविष्टाः | हल्-प्रत्याहारे सर्वाणि व्यञ्जनानि | एतत्तु शिवसूत्राणामभ्यासः <https://youtu.be/M16-v3u54ww> इत्यस्यां दृक्-श्राव्य-प्रस्तुत्यां विविक्तम् | अस्तु |
  • “अज्झलौ सवर्णौ न” इति अन्वयः सूचयति कावपि अज्झलौ सवर्णौ भवन्तावपि सवर्णौ न मन्तव्यौ |
  • एतत्सूचनमवगन्तुमवधेयं यत् अष्टाध्याय्याम् पाणिनिना एका व्याकरणीया संज्ञा इति सवर्ण-शब्दः प्रयुक्तोऽस्ति | सा संज्ञा “तुल्यास्यप्रयत्नं सवर्णम् (१’१’९)”-इत्यस्मिन् पूर्वस्मिन् सूत्रे संज्ञिता अस्ति | एतेन सूत्रेण ज्ञायते यत् ययोः वर्णयोः आस्यंश्च प्रयत्नश्च तुल्यौ तौ वर्णौ सवर्णौ | यथा अ-कारः आ-कारश्च द्वावपि सवर्णौ यतः द्वावपि कण्ठ्यौ | क-वर्गीयाणि सर्वाणि व्यञ्जनान्यपि कण्ठ्यानि | ह्-कारोऽपि कण्ठ्यः |
  • पुनः अ-कारः आ-कारश्च द्वावपि अचौ | कवर्गीयाणि व्यञ्जनानि ह-कारश्च हलः | यद्यपि एते सर्वे वर्णाः कण्ठ्याः तथापि अज्झलौ सवर्णौ न इत्यन्वयेन अचांश्च हलांश्च परस्परं सावर्ण्यं निषिध्यते |
    अष्टाध्याय्यां बहूनि सूत्राणि नकारान्वितानि | प्रायस्तानि सर्वाणि “निषेध-सूत्राणि” |
    अज्झलौ सवर्णौ न इत्यन्वयसूत्रार्थयोः ज्ञातयोरपि कुतूहलं सञ्जायते किं प्रयोजनमस्य सूत्रस्य |
    एतत्कुतूहलं समाधातुम् अभ्यसनीयं खलु अष्टाध्याय्यामन्येषु केषु सूत्रेषु सवर्ण-शब्दः प्रयुक्तोऽस्ति |
    एतद्विधाय अभ्यासाय अष्टाध्याय्याः शब्दसूचिः उपयुक्ता सिध्यति | संप्रति तु द्वे सूत्रे मनस्यागच्छतः – अकः सवर्णे दीर्घः (६’१’१०१) अनुस्वारस्य ययि परसवर्णः (८’४’५८) ।
    स्पष्टमेव अकः सवर्णे दीर्घः (६’१’१०१) इत्यस्मिन् सूत्रे अकां सावर्ण्यस्य विचारः वर्तते |
    एतयोः सूत्रयोरभ्यासोऽपि कर्तव्यः | तथापि अस्याः प्रस्तुतेर्विस्तारभयात् विरमामि |
  • सूत्राभ्यासे अन्येषां संबद्धितानां सूत्राणां ज्ञानमावश्यकम् |
  • सूत्राभ्यासस्य पूर्वमिदमप्यवधेयम् “सूत्रमिति किम् ?” एतद्विषयेऽस्ति श्लोकः

अल्पाक्षरमसंदिग्धं सारवद्विश्वतो मुखम् |

अस्तोभमनवद्यंश्च सूत्रं सूत्रविदो विदुः ||

  • सूत्रस्यैतानि लक्षणान्यवधाय अवलोकनीयं यत् प्रायः सूत्रेषु क्रियापदानि न वर्तन्ते क्वचिदेव वर्तन्ते वा |
  • सूत्रस्थितस्य प्रत्येकस्य शब्दस्य विभक्तिवचने तु भवतः | विभक्तिषु पञ्चमी-षष्ठी-सप्तमी-नां विभक्तीनामष्टाध्याय्यां कतिचिद्वैशिष्ट्यम् |
  • उदाहरणार्थमभ्यसनीयं सूत्रम् – ङमो ह्रस्वादचि ङमुण्नित्यम् (८’३’३२) |
  • पदच्छेदैः विभक्ति-वचन-विश्लेषणैश्च ⇒ ङमः (६/१) ह्रस्वात् (५/१) अचि (७/१) ङमुट् (१/१) नित्यम् (०/०)
  • अत्र सूत्रार्थाय कापि अनुवृत्तिः आवश्यकी न | तथापि एतत्सूत्रम् “संहितायाम् (८’२’१०८)” इत्यस्य सूत्रस्य अधिकारे वर्तते ।
  • सहजः खलु प्रश्नः किमिति सूत्रस्य अधिकारः ? मननीयं यत् “संहितायाम् (८’२’१०८)” इति सूत्रम् अधिकारसूत्रम् | अधिकारसूत्रे विषयः प्रतिपाद्यते | तेन प्रतिपादनेन ज्ञातव्यं यत् तत्परेषु सूत्रेषु प्रतिपादित-विषयस्यैव विवेचनं कृतं भवति |
  • ङमो ह्रस्वादचि ङमुण्नित्यम् (८’३’३२) इत्यस्मिन् सूत्रेऽपि संहिता-इत्येनं प्रमुखविषयमधिकृत्यैव किञ्चन विवेचनम् |
  • अष्टाध्याय्याः अभ्यासाय अष्टाध्याय्याः तद्विधं पुस्तकं समीचीनं यस्मिन्निर्दिष्टं भवति कस्य अधिकारसूत्रस्य अधिकारः कति-सूत्रपर्यन्तः ज्ञेयः |
  • “संहितायाम् (८’२’१०८)” इत्यस्य सूत्रस्य अधिकारस्तु “अ अ (८’४’६८)” इतिसूत्रपर्यन्तः | एतत्सूत्रंस्तु अष्टाध्याय्याः अन्तिमं सूत्रम् !! अस्तु |
  • अन्यदप्यवधेयं यदस्ति सूत्रम् “पूर्वत्रासिद्धम् (८’२’१)” इति | अष्टाध्याय्याः अष्टमाध्यायस्य द्वितीयपादस्य प्रथमम् । अनेन सूत्रेण सम्पूर्णा अष्टाध्यायी द्विधा विभक्ता भवति | “पूर्वत्रासिद्धम् (८’२’१)” इति सूत्रतः अष्टाध्याय्याः त्रयः पादाः वर्तन्ते | तत्पूर्वम् अष्टाध्याय्याः सपादसप्त अध्यायाः वर्तन्ते | तावेव अष्टाध्याय्याः द्वौ विभागौ – प्रथमः सपादसप्ताध्यायीति द्वितीयः पादत्रयस्य | अस्तु | विस्तारभयात्तद्विवेचनं न करोमि |
  • वयं “ङमो ह्रस्वादचि ङमुण्नित्यम् (८’३’३२)” इत्येतत्सूत्रम् अभ्यसन्तः स्मः | एतत्सूत्रं “संहितायाम् (८’२’१०८)” इत्यस्य सूत्रस्य अधिकारे वर्तते एतदपि ज्ञातम् | तथापि संहितेति किम् ?
  • संहितेति व्याकरणीया संज्ञा “परः संनिकर्षः संहिता (१’४’१०९)” इत्यस्मिन् सूत्रे संज्ञिता |
    अनेकैः वैयाकरणैः अष्टाध्याय्याः परिशीलनंस्तेषां ग्रन्थेषु प्रस्तुतमस्ति | वैयाकरणेषु भट्टोजी-दीक्षितः एकः प्रथितः | तेन सिद्धान्तकौमुदी-नाम्नी टीका विरचिता अष्टाध्याय्याः |
  • यतः अधिकारसूत्रं विहाय अन्यस्मात् कस्मादपि पूर्वसूत्रात् न कोऽपि शब्दः अनुवर्तनीयोऽत्र, सूत्रस्य अन्वयस्तु लेखनीयः |
  • सूत्रेऽस्मिन् ह्रस्वात्-इत्यस्य विभक्तिः पञ्चमी | ङमः-इत्यस्य षष्ठी तथा अचि-इत्यस्य सप्तमी वर्तते |
  • अन्वयलेखने अनेनैव क्रमेण शब्दानां लेखनं प्रायः साधु | यतः अनेन क्रमेण कः पूर्ववर्णः कः मध्यमवर्णः कः उत्तरवर्णः तत्स्पष्टं भवति |
  • ह्रस्वात् इत्युक्ते पूर्ववर्णः कोऽपि ह्रस्वः अक् भवति चेत्
  • ङमः-इत्युक्ते मध्यमवर्णः ङम्-प्रत्याहारान्वितः ङ् वा ण् वा न् वा अस्ति चेत्
  • अचि-इत्युक्ते उत्तरवर्णः कोऽपि अच् अस्ति चेत्
  • ङमुट् नित्यम् | ङमुट् सदैव | ङमुट् विनापवादेन |
  • ङमुट् इति किम् ? ङमुट् इति सामासिकः शब्दः | ङम् एव उट् इति ङमुट् (कर्मधारयः) |
  • अन्वये विद्यमानानां सामासिकशब्दानां विग्रहः इति सूत्रार्थावगमने आवश्यकम् |
  • ङम् इति प्रत्याहारः ङ्-ण्-न्-वर्णानाम् | उट् इति पाणिनिना अष्टाध्याय्यां प्रयुक्ता पाणिनीया संज्ञा | उट्-संज्ञा आगमं सूचयति, यथा सुट् इति स्-कारस्य आगमः |
  • ङमुट् इति ङमः आगमः | संहितायां ङ्-कारे सति ङ्-कारस्य, ण्-कारे सति ण्-कारस्य, न्-कारे सति न्-कारस्य आगमः भवति | अथवा एतेषामनुनासिकानां द्वित्तं भवति |
  • सूत्रार्थः प्रायः उदाहरणैः प्रत्युदाहरणैश्च स्पष्टः भवति | सूत्रार्थावगमनाय उदाहरणानां प्रत्युदाहरणानांश्चाभ्यासः साहाय्यकारी भवति |
  • “ङमो ह्रस्वादचि ङमुण्नित्यम् (८’३’३२)”-इत्यस्य सूत्रस्य विवेचनं सिद्धान्तकौमुद्यां (१३४)-तमे परिच्छेदे प्राप्यते । तदेवम् =>
  • ह्रस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो नित्यं ङमुडागमः स्यात् । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः ॥
  • अत्र त्रीण्युदाहरणानि पठ्यन्ते – प्रत्यङ्+आत्मा = प्रत्यङ्ङात्मा | सुगण्+ईशः = सुगण्णीशः | सन्+अच्युतः = सन्नच्युतः |
  • प्रत्युदाहरणान्यपि अभ्यसनीयानि यथा (१) सर्वम्+इति = सर्वम्मिति वा ? नैव | यतः अत्र अनुनासिकः म्-कारः | म्-कारस्तु ङम्-प्रत्याहारे न समाविष्टः | (२) सर्वान्+एति = सर्वान्नेति वा ? नैव | यतः न्-कारस्य पूर्वम् आ-कारः वर्तते | सः ह्रस्वः न |
  • एवमत्र “कथमभ्यसनीयमष्टाध्यायीसूत्रमिति” विषयः सूत्रद्वयस्य अभ्यासेन प्रस्तुतः – प्रथमम् नाज्झलौ (१’१’१०) इति, द्वितीयम् ङमो ह्रस्वादचि ङमुण्नित्यम् (८’३’३२) इति |
  • अत्र सूत्राभ्यसनार्थं कश्चित् क्रियाक्रमः निर्दिष्टः यथा ⇒
  • (१) पदच्छेदनम् (२) विभक्ति-वचन-विश्लेषणम् (३) अनुवृत्तयः (४) अन्वयः (५) सामासिकशब्दानां विग्रहान् कृत्वा (६) सूत्रार्थः (७) उदाहरणानि प्रत्युदाहरणानि च (८) सिद्धात्नकौमुदीवतां टीकाग्रन्थानामभ्यासोऽपि।
    (९) सम्बद्धितामन्येषां सूत्राणां ज्ञानमपि उक्तमेव |
  • आशासे साध्विदम् |

|| इति शुभम् ||

-o-O-o-

 

 

 

 

 

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s