अस्य दृक्-श्राव्यप्रस्तुतिः <https://youtu.be/JnKIbSasYyc> श्रूयते पठ्यते च |तस्य पाठः निम्नमिव =>

  • कथमभ्यसनीयमष्टाध्यायीसूत्रम् – इत्यस्मिन् विषये प्रथमो भागः <https://youtu.be/OXLy1xryycs> इत्यत्र विविक्तः | 
  • अधुना द्वितीयो भागः |
  • अस्ति सूत्रम् – सर्वादीनि सर्वनामानि (१’१’२७) 
  • पदच्छेदैः विभक्तिवचन-विश्लेषणैश्च – सर्व-आदीनि (१’३) सर्व-नामानि (१’३) 
  • सामासिकशब्दानां विग्रहाः – सर्व-आदीनि = सर्व-(शब्दः) आदौ येषाम् तानि सर्वादीनि (बहुव्रीहिः)
  • सर्व-नामानि = सर्वैः (योजनीयानि / उच्यमानानि) नामानि सर्वनामानि (मध्यमपदलोपी तृतीयातत्पुरुषः) 
  • कुतूहलं भवति कुत्रास्ति सर्वशब्दः आदौ कृतः | उत्तरं भवति गणपाठे (!) 
  • अस्ति तत्र एकः गणः “सर्वादि”-गणः |
  • यस्मिन् कस्मिन्नप्यष्टाध्यायीसूत्रे “आदि”-शब्दः प्रयुक्तोऽस्ति प्रायस्तत्सूत्रम् गणं सूचयति |
  • अमुकस्मिन् गणे के के शब्दाः समाविष्टाः तद्विवरणं गणपाठे पठनीयम् | 
  • उदाहरणार्थमस्त्यन्यत्सूत्रम् – प्रादयः (१’४’५८) प्रादयः प्र-आदयः | प्र-शब्दः आदौ येषांस्ते | इत्युक्ते गणपाठे प्रादिगणः द्रष्टव्यः |
  • अस्ति कतिचिदाधुनिके गणिते set-theory-नाम्नी एका शैली | set इति गणः एव | प्रत्येकस्मिन् set-मध्ये भवन्ति elements अवयवाः | 
  • अस्माकं शरीरमपि एकः गणः | भवन्ति तत्र अवयवाः | गीतायाः त्रयोदशाध्यायस्य प्रथमे श्लोकेऽस्त्युक्तम् “इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते” | 
  • दृश्यते क्षेत्रविचारोऽपि गणविचार एव | शरीर-इत्यस्मिन् क्षेत्रे वर्तमानाः अवयवाः सन्ति विवृताः “महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च | इन्द्रियाणि दशैकंश्च पञ्च चेन्द्रियगोचराः (१३’५) इच्छाद्वेषः सुखं दुःखं संघातश्चेतना धृतिः | एतत्क्षेत्रं समासेन सविकारमुदाहृतम् (१३’६) । श्लोकद्वयमेतत् शरीर-इत्यस्य गणस्य कश्चित् गणपाठः | अस्त्युक्तमत्र “समासेन सविकारमुदाहृतम्” इति | इत्युक्ते सूचितं प्रायः यदुक्तं तत्समासेनैव सविकारम् | विकाराः भवेयुः | 
  • अत्र महाभूतानीति एकः उपगणः | इन्द्रियाणि दश इति अन्यः उपगणः | इन्द्रियगोचराणां पञ्चानामप्यन्यः उपगणः | संघातः इत्यपि एकः उपगणः | प्रायः संघातस्योपगणस्य अनेके अवयवाः शक्याः | 
  • यस्य गणस्य अवयवानां संख्या अपरिमिता ते गणाः आकृतिगणाः मन्तव्याः | 
  • गणिते कश्चित् पूर्णाङ्कानामिति पूर्णाङ्कगणः मन्यते चेत् तत्रावगन्तानामवयवानां संख्या अपरिमितैव भवति | अयं “पूर्णाङ्क”-गणः आकृतिगण एव | 
  • गणपाठे वर्तमानाः गणाः द्विविधाः – आकृतिगणाः परिमितगणाश्च | 
  • कः गणः आकृतिगणः कश्च परिमितः इति ज्ञातुं भाष्यानामभ्यसनं साधु ।
  • प्रादिगणस्तु परिमितगणः यतः तत्र विवृतान् प्रादीन् विहाय न कोऽप्यन्यः प्रादिर्भवति | 
  • सर्वादिगणोऽपि परिमितगणः | 
  • तत्र प्रथमतः उल्लिखितानि (२०) स्वाभाविकानि सर्वनामानि – सर्व, विश्व, उभ, उभय, डतरच्डतमज्भ्यामष्ट, अन्य, अन्यतर, इतर, त्वत् , त्व, नेम, सम, सिम
  • गणपाठे सर्वादिगणे त्रीणि गणसूत्राण्यपि सन्ति | तान्यप्यभ्यसनीयान्येव | 
  • तत्पश्चात् त्यदादिगणः इति सर्वादिगणस्य उपगणः | तस्मिन् त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतुँ, किम् इति द्वादश सर्वनामानि सन्ति 
  • प्रथमं गणसूत्रम् – पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् असंज्ञायाम् 
  • पदच्छेदैः – पूर्व-पर-अवर-दक्षिण-उत्तर-अपर-अधराणि (१’३) व्यवस्थायाम् (७’१) असंज्ञायाम् (७’१)  
  • ज्ञातव्यं यत् एतानि (७) – पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर – व्यवस्थायामेव सर्वनामानि, न तु संज्ञायाम् | 
  • व्यवस्थायामिति किम् ? दिग्दर्शनमेका व्यवस्था | अस्ति श्लोकः महाकविकालिदासस्य कुमारसंभवे “अस्त्युत्तरस्यां दिशि देवतात्मा” अत्र उत्तरस्याम् इति पदं दिशार्थे प्रयुक्तम् | 
  • अभिमन्योः भार्या उत्तरानाम्नी | तन्नाम उत्तरा व्यावहारिकी संज्ञा, सर्वनाम न | तस्यै इति उत्तरायै न तु उत्तरस्यै | अत एव अस्ति गणसूत्रे उक्तम् असंज्ञायाम् इति |
  • द्वितीयं गणसूत्रम् – स्वमज्ञातिधनाख्यायाम् 
  • पदच्छेदैः – स्वम् (१’१) अज्ञाति-धन-आख्यायाम् (७’१)
  • स्व इति प्रातिपदिकं कदा सर्वनाम भवति, कदा न भवति तदत्र विहितम् |
  • तृतीयं गणसूत्रम् – अन्तरं बहिर्योगोपसंव्यानयोः 
  • पदच्छेदैः – अन्तरम् (१’१) बहिर्-योग-उपसंव्यानयोः (६’२) 
  • अनेन सूत्रेण अन्तर-इति प्रातिपदिकं कदा सर्वनाम भवति, कदा न भवति तद्विहितम् |
  • एवं सर्वादिगणे कुलतः एकचत्वारिंशत् (४१) सर्वनामानि विवृतानि सन्ति | 
  • तानि उदाहरणैः प्रत्युदाहरणैरपि अभ्यसनीयानि |
  • वस्तुतः यानि गणसूत्राणीति उपर्युल्लिखितानि तानि त्रीण्यपि अष्टाध्याय्यामपि अक्षरशः वर्तन्ते (१’१’३४), (१’१’३५), (१’१’३६) इत्यत्र | तथापि तेषां सूत्रार्थाः भिन्नाः | कथंस्तदप्यभ्यसनीयम् ! तदर्थे तेषां सूत्राणामभ्यासः कर्तव्यः | 
  • विस्तारभयात्तद्विवेचनमत्राप्रशस्तं भवेत् |
  • सर्वादीनि सर्वनामानि (१’१’२७) इति सूत्रम् सर्वनाम-संज्ञां प्रस्तुतीकरोति | 
  • किं महत्त्वमस्याः संज्ञायाः ? 
  • ज्ञातमेव यत् सर्वनाम्नां रूपाणि स्मै, स्मात्, स्मिन् एतैः प्रत्ययैः भवन्ति |
  • श्रीमता नीलेशबोडसवर्येण तस्य जालपुटेषु <http://ashtadhyayi.com/sutraani/1/1/27इत्यत्र बहु समग्रं विवेचनं कृतमस्ति अस्य सूत्रस्य |
  • तत्सर्वं “कथमध्ययनीयमष्टाध्यायीसूत्रम्”-एतद्विषये प्रमाणवद्भाति |
  • अस्यां दृक्-श्राव्य-प्रस्तुत्यामिदं कथनीयमासीद्यत् सूत्राभ्यासे यदि सूत्रे गणपाठस्य निर्देशः स्पष्टोऽस्ति सूत्रस्थितेन आदि-शब्देन तदा तु सम्बद्धस्य गणपाठस्य अभ्यासोऽपि आवश्यको भवत्येव | 

    || इति शुभम् ||

-o-O-o-

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s