अष्टाध्याय्याः पदशः अभ्यासः – प्रास्ताविकम्

|| अष्टाध्याय्याः पदशः अभ्यासः – प्रास्ताविकम् ||

I have been studying अष्टाध्यायी in various ways. One way to study may be by doing पदशः अभ्यासः. It may end up becoming a dictionary of अष्टाध्यायी. Also, since अष्टाध्यायी is a standard reference book of Sanskrit grammar, would it be different from “Dictionary of Sanskrit Grammar” authored jointly by महामहोपाध्याय काशिनाथशास्त्री अभ्यंकर and जयदेव मोहनलाल शुक्ल ? I do not know at this stage.

When doing पदशः अभ्यासः, I had to bear in mind the meaning of पद itself.

  • In the tradition of Sanskrit grammar, there has been a thought, attributed to यास्काचार्य, that पद-s in Sanskrit are of four types – (1) नाम (2) आख्यात (3) उपसर्ग (4) निपात.
  • In अष्टाध्यायी there is a definition in सूत्रम् – सुप्तिङन्तं पदम् (1’4’14 सि 29 संज्ञाप्रकरणे) meaning पद is “that which has सुप् or तिङ्-ending”.
  • In the introduction in their book, Dictionary of Sanskrit Grammar संस्कृत-व्याकरणस्य शब्दकोशः following श्लोक-s are mentioned, summarizing what all studies काशिनाथशास्त्री अभ्यंकर and जयदेव मोहनलाल शुक्ल did in compiling their कोश.

प्रातिशाख्य-महाभाष्य-कौमुदी-काशिका-दिकान् / ग्रन्थान् वाक्यपदीयांश्च अभ्यस्य  श्रमपूर्वकम् //1// ग्रन्थानां ग्रन्थकाराणां नामानि प्रत्ययांस्तथा / विशिष्टशास्त्रीयार्थस्य वाचकान् पारिभाषिकान् //2// शब्दान् समीक्ष्य संज्ञादीन् आदेशान् आगमांस्तथा / यदारब्धं संग्रथनं कालात् प्राक् सुबहोर्मया //3// अभ्यंकरोपाह्वकुले वासुदेवस्य सूनुना / काशिनाथाभिधेनेदं कोषरूपं समापितम् //4//

As mentioned in these श्लोक-s, words in अष्टाध्यायी are पारिभाषिक-s, संज्ञा-s, प्रत्यय-s, आदेश-s, आगम-s, etc.

Certainly they put in hard labor श्रमपूर्वकम् in compiling the कोश. And the work spread over number of years “started long time ago” सुबहोः कालात् प्राक् आरब्धम् !

By the way, I also came across a mention that in the various सूत्र-s in अष्टाध्यायी, there are 156 अव्ययानि 1574 प्रथमान्तानि 34 द्वितीयान्तानि 115 तृतीयान्तानि 3 चतुर्थ्यन्तानि 1308 पञ्चम्यन्तानि 1005 षष्ठ्यन्तानि 1349 सप्तम्यन्तानि कुलतः 5544 पदानि of these types.

सूत्रम् – सुप्तिङन्तं पदम् (1’4’14 सि 29 संज्ञाप्रकरणे) warrants that अचः and अचि be treated as two different पद-s, though they are सुबन्त-s of one and the same basic प्रातिपदिकम् “अच्”.

In compound words, there would be more than one पद-s. For example सूत्रम् – स्वौजसमौट्….. (4’1’2 सि 183 अजन्तपुंल्लिङ्गप्रकरणे) is a single word, but contains 21 components and सूत्रम् – तिप्तस्झि… (3’4’78 सि 2154 “तिङन्ते भ्वादयः”-इत्यस्मिन् प्रकरणे) also is a single word, but contains 18 components !

For my study, I would take both अचः and अचि together. So this study shall rather be प्रातिपदिकशः than पदशः. But I may have to treat components in compound words separately. 

Actually अष्टाध्यायी does contain some तिङन्त-s also, though very few. Those studies will rather be धातुशः than तिङन्तशः.

*Note, the mention “1’4’14 सि 29 संज्ञाप्रकरणे”, contains the सूत्रक्रमाङ्क 1’4’14 followed by the paragraph-number सि 29 in सिद्धान्तकौमुदी and also title of the प्रकरणम् the chapter, e.g. संज्ञाप्रकरणे.

This note is, as such, a general introductory on my plan for this study.

महान्तः संदर्भग्रन्थाः Major References –

  1. सिद्धान्तकौमुदी – वासुदेव-लक्ष्मणशास्त्री-पणशीकर-महाभागेन संपादिता /
  2. पाठक-चित्राव-वर्ययोः रचितः अष्टाध्यायी-शब्दकोशः (Word Index) <https://ia600307.us.archive.org/27/items/5990010905076WordIndexToPaniniSutraPathaAndParisistasVidyanidhiSiddheshvarshastr/Pathak%20and%20Chitrao%2C%20Word%20Index_1935%20DLI5990010905076.pdf> अत्र प्रापणीयः
  3. अभ्यंकर-शुक्ल-वर्ययोः Dictionary of Sanskrit Grammar संस्कृत-व्याकरणस्य शब्दकोशः /<http://lukashevichus.info/knigi/abhyankar_shukla_sans_gram_dic.pdf> अत्र प्रापणीयः /

शुभमस्तु !

-o-O-o-

Advertisements

अष्टाध्यायीपदाभ्यासे – 1

अष्टाध्यायीपदाभ्यासे (1) अ-इति पदम्   

(अधः सूत्रक्रमाङ्कस्य पश्चात् यः सि.-क्रमाङ्कः सः सिद्धान्तकौमुद्याः)  

I just got an idea of studying every पदम् in अष्टाध्यायी, to understand, in what all shades, one comes across the पदम् in अष्टाध्यायी. To compile the study, it was easier to do it mostly in Sanskrit.

It was logical to start the study with the study of अ-इति पदम्. I got great help from Ref. (3) in particular. But my arrangement is different. Hope, it is better articulated.

संदर्भग्रन्थाः Bibliography –

  1. सिद्धान्तकौमुदी – वासुदेव-लक्ष्मणशास्त्री-पणशीकर-महाभागेन संपादिता /
  2. पाठक-चित्राव-वर्ययोः रचितः अष्टाध्यायी-शब्दकोशः (Word Index) <https://ia600307.us.archive.org/27/items/5990010905076WordIndexToPaniniSutraPathaAndParisistasVidyanidhiSiddheshvarshastr/Pathak%20and%20Chitrao%2C%20Word%20Index_1935%20DLI5990010905076.pdf&gt; अत्र प्रापणीयः
  3. अभ्यंकर-शुक्ल-वर्ययोः Dictionary of Sanskrit Grammar संस्कृत-व्याकरणस्य शब्दकोशः /<http://lukashevichus.info/knigi/abhyankar_shukla_sans_gram_dic.pdf&gt; अत्र प्रापणीयः /

  1. वर्णमालायाः शिवसूत्रेष्वपि प्रथमः वर्णः – अक्षराणामकारोऽस्मि (गीता 10’33)
  2. कण्ठ्यः स्वरः
  3. अत् – अत् = अ-इत्येव / अत् इति अष्टाध्याय्यां पारिभाषिका संज्ञा / अत् इति शब्दः अनेकेषु सूत्रेषु / तस्य विवेचनं स्वतन्त्रतया /
  4. उच्चाराः – अकारस्य उच्चारणम् अष्टादशम् – मुखनासिकावचनोऽनुनासिकः (1’1’8 सि. 9) ऊकालोऽज्झ्रस्वदीर्घप्लुतः (1’2’27 सि. 4) उच्चैरुदात्तः (1’2’29 सि. 5) नीचैरनुदात्तः (1’2’30 सि. 6) समाहारः स्वरितः (1’2’31 सि. 7) इत्येतैः सूत्रैः /
  5. अवसानसूचकः – अ अ इति (8’4’68, सि. 11) / एकस्य विवृतत्वात् अपरस्य संवृतत्वात् संध्यभावः /
  6. आगमः (अट्) – लुङ्-लङ्-लृङ्-क्ष्वडुदात्तः (6’4’71, सि. 2206) / लुङ्-लङ्-लृङ्-क्षु अट् उदात्तः / लुङ्-लङ्-लृङ्-एषु परेषु अङ्गस्य अडागमः स्यात् स च उदात्तः /
    1. अट् इति आगमः एकः न तु प्रत्याहारः /
    2. अडागमस्य उल्लेखः अनेकेषु सूत्रेषु / अतः तस्य विवेचनं स्वतन्त्रतया यथानुक्रमेण /
  7. अ-कारस्य आदेशाः
    1. वृद्धिरेचि (6’1’88 सि. 72) – यथा देवस्य ऐश्वर्यम् इति देवैश्वर्यम् (देव+ऐश्वर्यम्)
    2. आद्गुणः (6’1’87 सि. 69) – अवर्णादचि परे पूर्वपरयोरेको गुणादेशः स्यात्संहितायाम् / यथा उपेन्द्रः (उप+इन्द्रः)
    3. अकारस्य वृद्धिः आकारः / यथा मम ⇒ मामकः (मम अयमिति मामकः क-इति तद्धित-प्रत्ययः) / गङ्गा ⇒ गाङ्गमम्बु (गाङ्गम् अम्बु), गङ्गायाः इदमिति गाङ्गम् / *गाङ्गम्-इति पदस्य सिद्धिः श्रीमता एच्-एन्-भट-महोदयेन मह्यं विविक्ता / कतिचिद्दीर्घम् विवेचनं तेषाम् / अत्र न सुकरम् / 
    4. अकारः आकारस्य गुणः / यथा गङ्गा ⇒ सप्तगङ्गम् (गङ्गा सप्तधा यत्र तत् सप्तगङ्गम् क्षेत्रम्) *श्रीमता एच्-एन्-भट-महोदयेन मह्यं विविक्तं यत् सप्तगङ्गम् इत्यत्र गुणादेशः न / अतोऽम् (7’1’24 सि. 309) इति सूत्रानुसारेण अतः (अकारस्य) अम्-इति आदेशः / कतिचिद्दीर्घम् विवेचनं तेषाम् / अत्र न सुकरम् / 
  8. प्रत्ययः – अ-इति प्रत्ययः
    1. अ प्रत्ययात् (3’3’102, सि. 3279) – प्रत्ययान्तधातुभ्यः इच्छार्थे स्त्रियाम् अ-प्रत्ययात् (भवति) / अ-वर्णः प्रत्ययः इति युज्यते इति सूचितम् अस्मिन् सूत्रे / यथा कृ ⇒ (सनि) चिकीर्ष ⇒ (स्त्री.) चिकीर्षा / पुत्रकाम्य (पुं.) ⇒ पुत्रकाम्या (स्त्री.) /
    2. अ साम्प्रतिके (4’3’9, सि. 1379) – मध्यार्थे अ-प्रत्ययेन मध्यशब्दात् यथा नातिदीर्घं नातिह्रस्वं मध्यं काष्ठम् / नात्युत्कृष्टो नात्यवकृष्टो मध्यः वैयाकरणः / मध्या स्त्री /
    3. अ च (4’3’31, सि. 1404) – अमावास्या-शब्दात् अकारप्रत्ययः स्यात् /
    4. लुङ्-लकारस्य लक्षणे चङ् (3’1’48 सि. 2312) अङ् (3’1’52 सि. 2438) /
    5. अ-इत्येव प्रयुज्यमाणाः श (3’1’77 सि. 2534) शप् (3’1’68 सि. 2167) इति विकरणप्रत्ययौ /
    6. अ-इत्येव प्रयुज्यमाणाः कृत्-प्रत्ययाः अङ्, अच्, अञ्, अण्, क, ख घञ् ट, ड, ण  इत्यनेके तृतीये अध्याये /
    7. अ-इत्येव प्रयुज्यमाणाः तद्धित-प्रत्ययाः अच्, अञ्, अण् अ इत्यनेके चतुर्थ-पञ्चमाध्याययोः /
    8. अ-इत्येव प्रयुज्यमाणाः उणादि-प्रत्ययाः अन्, अल् क, कन्, ट, टन्, ड  इत्यनेके /
    9. अ-इत्येव प्रयुज्यमाणाः समासान्तिकाः अ, अच्, डच्, टच्, षच् ष अप् अञ्, (5’4’73 तः 5’4’121 पर्यन्तेषु)
    10. प्रत्येकस्य प्रत्ययस्य विवेचनमनेकेषु सूत्रेषु / अतः तेषां विवेचनं स्वतन्त्रतया यथानुक्रमेण /
  9. प्रत्याहारेषु – अ-वर्णः अधोनिर्दिष्टेषु पञ्चसु प्रत्याहारेषु /
    1. अक्अक्-इत्यस्मिन् प्रत्याहारे अ-इ-उ-ऋ-लृ-इति वर्णाः यथा सूत्रे -अकः सवर्णे दीर्घः (6’1’101, सि. 85) – सवर्ण-संहितायां सर्वेषाम् एकादेशेन दीर्घः एव / अत्र अ+अ, अ+आ, आ+अ, आ+आ एतासु सर्वासु संहितासु आ-इत्येव एकादेशः / तथैव इ-कारस्य, उ-कारस्य, ऋ-कारस्य लृ-कारस्य च /
    2. अच् – अच्- प्रत्याहारे सर्वे स्वराः यथा सूत्रे – नाज्झलौ (1’1’10, सि. 13) – न अच्-हलौ /
    3. अण् – अण्-प्रत्याहारे
      1. प्रायः अ-इ-उ-वर्णाः / यथा सूत्रे – अणुदित्सवर्णस्य चाप्रत्ययः (1’1’69, सि. 14) – अण्-उत्-इत्-सवर्णस्य च अप्रत्ययः /
      2. अथवा सर्वे स्वराः अन्तस्थाश्च – यथा सूत्रे –
    4. अल् – यथा सूत्रे – अलोन्त्यस्य (1’1’52 सि. 42) – अल्-इति प्रत्याहारे सर्वे वर्णाः /
    5. अश् – अश्-प्रत्याहारे सर्वे स्वराः सर्वे अन्तस्थाः अनुनासिकाः सर्वाणि मृदुव्यञ्जनानि च / यथा सूत्रे – भोभगोऽघोऽपूर्वस्य योऽशि (8’3’17)
    6. प्रायः सर्वे प्रत्याहाराःबहुषु सूत्रेषु  / अतः तेषां विवेचनं स्वतन्त्रतया यथानुक्रमेण /
  10. संहितायाम्
    1. अच्-सन्धिषु
      1. अ-इति पूर्ववर्णः / यथा
        1. आद्गुणः (6’1’87 सि. 69) – अ-वर्णात् अचि परे पूर्वपरयोः गुणैकादेशः / यथा उपेन्द्रः /
        2. वृद्धिरेचि (6’1’85, सि. 72) / वृद्धिः एचि / आत्-परे एच्-वर्णेषु सत्सु वृद्धिः / यथा कृष्णैकत्वम् देवैश्वर्यम् /
        3. एत्येधत्यूठ्सु (6’1’86, सि. 73) (काशिकायाम् सिद्धान्तकौमुद्यां च 6’1’89 ?) – एति-एधति-ऊठ्-इत्येतेषु ये आदिवन्तः अचः तेषाम् पूर्वं अ-वर्णे सति पूर्वपरयोः एकादेशः वृद्धिश्च / यथा उप+एति = उपैति, प्र+ऊढ = प्रौढ /
      2. अ-इति परवर्णः / यथा
        1. इको यणचि (6’1’77, सि. 47) – इकः यण् अचि / अचि इति अचः परवर्णाः इति निर्देशः /
          1. अत्र अच् इति अकारान्वितः प्रत्याहारः / एतादृशाः अ-कारान्विताः अनेके प्रत्याहाराः / किञ्चित् विवेचनं निम्नम् /
        2. एचोऽयवायावः (6’1’78 सि. 61)
        3. एङः पदान्तादति (6’1’109 सि. 86) – पदान्तात् एङः अति परे पूर्वरूपम् एकादेशः स्यात् / यथा हरेऽत्र विष्णोऽव / अत्र अ-कारस्य लोपः एव / तथापि अयं लोपः “लोपः शाकल्यस्य (8’3’19 सि. 67)” इति सूत्रेण न / अ-कारदर्शकः अवग्रहः प्रायः युज्यते तथापि योजनीयः एव इति न /
    2. हल्-सन्धिषु
      1. कस्यापि व्यञ्जनस्य परे यः अकारः सः तत् व्यञ्जनम् अकारयुक्तं करोति / यथा अहम् + अस्मि = अहमस्मि /
        1. अकारपूर्वं व्यञ्जनं यदि ङ् वा ण् वा न् वा तदा तेषामेव आगमः तेन द्वित्तम् / अत्र सूत्रम् “ङमो ह्रस्वादचि ङमुण्नित्यम् (8’3’32 सि. 134) / यथा कुर्वन् + अस्मि = कुर्वन्नस्मि /
    3. विसर्गसन्धिषु
      1. अ-इति पूर्ववर्णः परवर्णः च ⇒ (अ + विसर्गस्य उ = ओ) / परवर्णे स्थितस्य अकारस्य लोपः / लुप्तः अकारः अवग्रहेण निर्दिश्यते / यथा सः + अहम् = सोऽहम्
      2. अ-इति पूर्ववर्णः अन्यः कोऽपि स्वरः परवर्णः ⇒ विसर्गस्य लोपः / यथा अर्जुनः + उवाच = अर्जुन उवाच
      3. अन्यः कोऽपि स्वरः पूर्ववर्णः अ-इति परवर्णः ⇒
        1. विसर्गस्य लोपः / यथा बालाः + अत्र = बाला अत्र “लोपः शाकल्यस्य (8’3’19 सि. 67)” इति सूत्रेण /
        2. विसर्गस्य य-कारः “भोभगोऽघोऽपूर्वस्य योऽशि (8’3’17)” इति सूत्रेण / यथा बालाः अत्र = बालाय् अत्र
          1. बालाय् अत्र = बालायत्र (?) / बालाय्यत्र (?)  
  11. नञर्थे समासेषु
    1. नञ्-समासेषु (नलोपो नञः 4’3’73 सि. 757) / यथा अप्रत्ययः (1’1’69, सि. 69) अकर्मकः [अतिङ् (कृदतिङ्ग् (3’1’93, सि. 374)] एतादृशाः अनेके सामासिकाः शब्दाः अनेकेषु सूत्रेषु / तेषां विवेचनं स्वतन्त्रतया यथानुक्रमेण /  

अस्मिन्नभ्यासे (1’1’8 सि. 9), (1’1’10, सि. 13) (1’1’52 सि. 42) (1’1’69, सि. 14) (1’2’27 सि. 4), (1’2’29 सि. 5), (1’2’30 सि. 6), (1’2’31 सि. 7) (3’1’48 सि. 2312) (3’1’52 सि. 2438) (3’1’68 सि. 2167) (3’1’77 सि. 2534) (3’1’93, सि. 374) (3’3’102, सि. 3279) (4’3’9, सि. 1379) (4’3’31, सि. 1404) (4’3’73 सि. 757) (5’4’73 तः 5’4’121 पर्यन्तानि) (6’1’77, सि. 47) (6’1’78 सि. 61) (6’1’85, सि. 72) (6’1’87 सि. 69) (6’1’88 सि. 72) (6’1’86/89(?), सि. 73) (6’1’101, सि. 85) (6’1’109 सि. 86) (6’4’71, सि. 2206) (8’3’17) (8’3’19 सि. 67) (8’3’32 सि. 134) (8’4’68, सि. 11) एतैः त्रिंशदधिकैः (30+) सूत्रैः विवेचनम् /

शुभमस्तु !

-o-O-o-