तुमन्तसिद्धिः – ४

तुमन्तसिद्धिः – ४

धातोः समीचीनं तुमन्तं प्राप्तुं कापि क्रियाक्रमकरी व्याख्या (algorithmic procedure) भवति वा भवितुं शक्यते वा ? मया कस्यैचिद्व्याख्यायै प्रयत्नः कृतः अस्ति निम्नमिव |

प्रथमं तु

  1. तुम्-प्रत्ययः पाणिनिना “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् । (3.3.10)” इत्यस्मिन् सूत्रे “तुमुन्” इति निर्दिष्टः |

  2. तथापि तुमुन्-प्रत्ययः तुम्-इत्येव भवतीति कथम् ?

    1. “हलन्त्यम् (1.3.3)”, “उपदेशेऽजनुनासिक इत् (1.3.2)” “तस्य लोपः (१।३।९)” एतैः सूत्रैः

      1. उपदेशेऽजनुनासिक इत्  = उपदेशे ७।१ अच् १।१ अनुनासिकः १।१ इत् १।१ = उपदेशे यः अनुनासिकः अच्, तस्य इत्संज्ञा भवति |

        1. उपदेशः = पाणिनिना प्रदत्तं नाम |

        2. अत्र तुमुन्-इति पाणिनिना प्रदत्तं प्रत्ययस्य नाम |

        3. अत्र “तुमुन्”-प्रत्यये उकारः (अच्) अनुनासिकः, सः इत्संज्ञकः भवति |

      2. हलन्त्यम् = अन्ते यत् हल् तस्यापि इत् | “तुमुन्”-प्रत्यये अन्तिमः न्-कारः (हल्) सोऽपि इत्संज्ञकः भवति |

      3. तस्य लोपः = यः इत्संज्ञकः तस्य लोपः |

        1. इत् = इ-धातोः शतृ-प्रत्ययेन कृदन्तं = यत् एति तत् इत् | एति = लोपः भवति |

        2. अन्तिमस्य न्-कारान्वितस्य (अनुनासिकस्य) उकारस्य लोपः भवति |

        3. अन्ते यः न्-कारः तस्यापि लोपः भवति |

    2. अतः प्रत्ययः “तुम्” इत्येव शिष्टः, तथैव प्रयुज्यते च |

  3. अत्र कोऽपि प्रष्टुमर्हति “यदि अन्ततः प्रत्ययः तुमित्येव भवति तर्हि केन कारणेन सः प्रथमं ‘तुमुन्’ इति कथितः ?” एतद्विधाः प्रश्नाः अन्येषां प्रत्ययानां विषयेऽपि उत्पद्यन्ते, यथा क्त्वा-प्रत्ययः अन्ततः त्वा-इत्येव क्त-प्रत्ययः अन्ततः त-इत्येव | अस्तु |

अथ धातूनां तुम्-प्रत्ययान्तान् प्राप्तुं क्रियाक्रमकर्यै व्याख्यायै अयं प्रयत्नः –

1. प्रथमं प्रष्टव्यम् धातुः स्वरान्तः (अजन्तः) वा व्यञ्जनान्तः (हलन्तः) वा ?

  • पाणिनेः धातूनां नामान्यपि यथा व्यवहारे ज्ञायन्ते तद्विधानि न, यथा ‘गम्’-धातोः पाणिनेः नामास्ति गम्लृ-इति | तेन सः अजन्तः भवति | अत्र तु सः ‘गम्’ इति हलन्तः एव मानीतः अस्ति |

2. यदि स्वरान्तः (अजन्तः)

   2.1 यदि अन्तिमस्वरः अ, तर्हि इडागमः |

    2.1.1 दशमगणीयानां णिजन्तानां धातूनां अय-विकरणेन अकारान्तः भवति | तेन इडागमः यथा

         कथ् → कथय → कथयितुम् |

    2.1.2 धातूनां णिचि अपि इडागमः भवति |

        कृ → कारय → कारयितुम् | तथैव स्थापयितुम् इत्यादयः |

   2.2 यदि अन्तिमस्वरः आ, तुमन्तसिद्धिः सरला | यथा दातुम्, पातुम्, स्थातुम्, स्नातुम्, निर्मातुम्, आख्यातुम् इत्यादयः |

  • दा + तुम् = दातुम्

  • “एकाच उपदेशेऽनुदात्तात् (7.2.10)” “नेट्  (7.2.8)” सूत्राभ्यां इडाभावः |

    • एकः अच् यस्मिन् सः एकाच् → तस्मात् = एकाचः |

    • न इट् = नेट् |

    • उपदेशे यः धातुः एकाच् च अनुदात्तः च तस्मात् इट् न |

   2.3 यदि अन्तिंमस्वरः इक् (इ, उ) तर्हि

      2.3.1 चि + तुम् = च् + इ + तुम्

  1. च् + इ + तुम् = च् + ए + तुम्

    • सार्वधातुकार्धधातुकयोः (7.3.84) इगन्तस्य (इक्-अन्तिमस्वरस्य) गुणः (7.3.82) |

  2. च् + ए + तुम् = चेतुम्

  3. तथा च जि → जेतुम्, नी → नेतुम्, श्रु → श्रोतुम्, स्तु (स्तुतौ) → स्तोतुम्

      2.3.2 क्री + तुम् = क् + र् + ई + तुम् = क् + र् + ए + तुम् = क्रेतुम्

  • सार्वधातुकार्धधातुकयोः (7.3.84) इगन्तस्य (इक्-अन्तिमस्वरस्य) गुणः (7.3.82) |

   2.4 यदि अन्तिमस्वरः ऊ, तर्हि इडागमः | यथा भू → भवितुम्, पू → पवितुम्,

   2.5 यदि अन्तिमस्वरः ऋ,

  • कृ + तुम् = क् + ऋ + तुम्

    • “एकाच उपदेशेऽनुदात्तात् (7.2.10)” “नेट्  (7.2.8)” सूत्राभ्यां इडाभावः |

  • क् + ऋ + तुम् = क् + अर् + तुम् = कर्तुम्

    • सार्वधातुकार्धधातुकयोः (7.3.84) उरण् रपरः (1.1.51) |

    • अतः ऋ-स्थाने अर्

  • तथैव स्मृ → स्मर्तुम् इत्यादयः

   2.6  एजन्तानां (ए, ऐ, ओ, औ) आ-आदेशः | यथा व्हे → व्हातुम्, ध्यै → ध्यातुम्, गै → गातुम्, त्रै → त्रातुम्,   सो → सातुम्

(3) धातुः यदि व्यञ्जनान्तः (हलन्तः)

“तुमन्तसिद्धिः – १”-इत्यत्र निम्नमिव विधानानि –

  3.1 केषामपि व्यंजनान्त-धातूनां तुम्-प्रत्ययस्य पूर्वं `इ’-आगमः |

यथा → श्वस् – श्वसितुम् , भाष् – भाषितुम् , पत् – पतितुम् , श्रम् – श्रमितुम्

  3.2 येषां व्यंजनान्त-धातूनां `इ’-आगमः  न भवति तद्विधानां केषामपि धातूनां आदेशः भवति |

यथा → लभ् – लब्धुम् , दृश् – द्रष्टुम् , वच् – वक्तुम्

  3.3 केषामपि व्यंजनान्त-धातूनां तुमन्तसिद्धिः अतिसरला |

यथा → मन् – मन्तुम् , हन् – हन्तुम् , शक् – शक्तुम्

    3.3.1 गम् → गन्तुम् एतदपि सरलं, सन्धियुतमित्येव | संहितैकपदे नित्या इति नियमः |

  3.4 केषामपि व्यंजनान्त-धातूनां उपान्त्य-ऱ्हस्व-स्वरस्य गुणः |

यथा → सिच् – सेक्तुम् , दिश् – देष्टुम् , मुच् – मोक्तुम् , शुभ् – शोभितुम्

“केषामपि” “येषां … तद्विधानां” एतद्विधैः वचनैः एतेभ्यः विधानेभ्यः क्रियाक्रमकरी व्याख्या न भवति |

(4) पुदुच्चेरी-स्थितस्य श्रीअरविन्दाश्रमस्य संस्कृतकार्यालयेन प्रकाशिते “डॉ. नरेन्द्र”-महोदयैः विरचिते  “व्यावहारिकम् पाणिनीयम्” इत्यस्मिन्पुस्तके व्यञ्जनान्तानां धातूनां तुमन्तसिद्धेः निम्नमिव उदाहरणानि

  4.1 खाद् + तुम्

    4.1.1 खाद् + इट् + तुम्

             “आर्धधातुकस्येड् वलादेः (7.2.35)” = वलादेः आर्धधातुकस्य इट्

     वल् (हल् इत्येभ्यः सर्वेभ्यः व्यञ्जनेभ्यः हयौ परित्यज्य इतराणि सर्वाणि व्यञ्जनानि) आदौ यस्य तस्मिन् आर्धधातुके सति इडागमः इत्यर्थः | अत्र “खाद्” इति आर्धधातुकम् | तस्य आदौ ख्-व्यञ्जनं “वल्”-प्रत्याहारान्वितम्  | तेन

    4.1.2 खाद् + इ + तुम् = खादितुम् |

एवमेव परि + अट् → पर्यटितुम्, अर्-च् → अर्चितुम्, अर्-ज् → अर्जितुम्, परि + ईक्ष् → परीक्षितुम्, कूज् → कूजितुम्, कूर्-द् → कूर्दितुम्, क्रन्द् → क्रन्दितुम्, क्रीड् → क्रीडितुम्, खेल् → खेलितुम्, आचर् → आचरितुम्,

चल् → चलितुम्, जप् → जपितुम्, जल्प् → जल्पितुम्, जीव् → जीवितुम्, जृम्भ् → जृम्भितुम्, धाव् → धावितुम् आनन्द् → आनन्दितुम्, पठ् → पठितुम्, पत् → पतितुम्, फल् → फलितुम्, बाध् → बाधितुम्, भिक्ष् → भिक्षितुम् भ्रम् → भ्रमितुम्, मन्थ् → मन्थितुम्, प्रयत् → प्रयतितुम्, याच् → याचितुम्, रक्ष् → रक्षितुम्, लङ्घ् → लङ्घितुम्, आलप् → आलपितुम्, अभिलष् → अभिलषितुम्, वद् → वदितुम्, वन्द् → वन्दितुम्, वम् → वमितुम्, वाञ्छ् → वाञ्छितुम्, शङ्क् → शङ्कितुम्, प्रशंस् → प्रशंसितुम्, शिक्ष् → शिक्षितुम्, श्रम् → श्रमितुम्,

श्वस् → श्वसितुम्, सेव् → सेवितुम्, स्खल् → स्खलितुम्, स्पन्द् → स्पन्दितुम्, हस् → हसितुम्, हिंस् → हिंसितुम्

  4.2 कुप् + तुम्

    4.2.1 कुप् + इ(ट्) + तुम्

             “आर्धधातुकस्येड् वलादेः (7.2.35)” = वलादेः आर्धधातुकस्य इट्

     वल् (हल् इत्येभ्यः सर्वेभ्यः व्यञ्जनेभ्यः हयौ परित्यज्य इतराणि सर्वाणि व्यञ्जनानि) आदौ यस्य तस्मिन् आर्धधातुके सति इडागमः इत्यर्थः | अत्र “कुप्” इति आर्धधातुकम् | तस्य आदौ क्-व्यञ्जनं “वल्”-प्रत्याहारान्वितम्  | तेन

    4.2.2 कुप् + इ + तुम्  = क् + उ + प् + इ + तुम् = क् + ओ + प् + इ + तुम् = कोपितुम् |

“पुगन्तलघूपधस्य च (7.3.86)” “सार्वधातुकार्धधातुकयोः (७।३।८४)” “मिदेर्गुणः (७।३।८२)” इत्येभ्यः सूत्रेभ्यः →

लघूपधः = लघुः उपधा यस्य सः |

उपधा = अन्तिमवर्णस्य पूर्वं यः वर्णः |

पुगन्तस्य = पुक् (प्-उक्)-इत्यागमेन युक्तस्य |

अत्र प्-अन्तिमवर्णस्य पूर्वा उ-उपधा लघुः अस्ति |

मिदेर्गुणः = मिदेः गुणः | अस्मात् सूत्रात् अनिवृत्तये “गुणः” इत्येव सूत्रांशः |

अत्र उ-उपधायाः  गुणः ओ |

एवमेव लिख् → लेखितुम् (इ-उपधा लघुः अस्ति | तस्याः गुणः ए |

शुभ् + तुम् = श् + उ + भ् + तुम् = श् + ओ + भ् + इ + तुम् = शोभितुम्

4.3 नृत् + तुम्

    4.3.1 नृत् + इ + तुम् = न् + ऋ + त् + इ + तुम् = न् + अर् + त् + इ + तुम् = नर्तितुम्

    “पुगन्तलघूपधस्य च (7.3.86)” “सार्वधातुकार्धधातुकयोः॥ ७।३।८४” उरण् रपरः (1.1.51)” इत्येभ्यः सूत्रेभ्यः | अत्र त्-अन्तिमवर्णस्य पूर्वा ऋ-उपधा लघुः अस्ति | तस्याः अर् |

एवमेव वृत् → वर्तितुम्, वृध् → वर्धितुम्, कृत् → कर्तितुम्

4.4 छिद् + तुम्

4.4.1 छिद् + तुम् = छ् + इ + द् + तुम् = छ् + ए + द् + तुम्

“पुगन्तलघूपधस्य च (7.3.86)” “सार्वधातुकार्धधातुकयोः॥ ७।३।८४” “… गुणः” (7.3.82)” इत्येभ्यः सूत्रेभ्यः इ-उपधायाः ए-इति गुणः |

4.4.2 छ् + ए + द् + तुम् = छ् + ए + त् + तुम् = छेत्तुम्

“संहितायाम् (8.2.108)” “खरि च (8.4.55)” “चर् (8.4.54)” “झलाम् (8.4.53)” एतेभ्यः सूत्रेभ्यः

झलाम् = झ्-तः ह् -पर्यन्तानां वर्णनाम्

खरि = ख्-तः र्-पर्यन्तेषु वर्णेषु सति

चर् = च्-तः स्-पर्यन्ताः वर्णाः

अत्र द्-वर्णस्य (झलि द्-वर्णः) अग्रे तुम्नः त्-वर्णः (खरि त्-वर्णः) | तेन द्-वर्णस्य त्-वर्णः |

    एवमेव खिद् → खेत्तुम्, भिद् → भेत्तुम्

4.5 क्षिप् → क्षेप्तुम् |

अत्र इडागमः तु भवति, इकारस्य एकारोऽपि भवति, तत्पश्चात् सरलम् |

यथा

लिप् + तुम् = ल् + इ + प् + तुम् = ल् + ए + प् + तुम् = लेप्तुम्

क्षिप् + तुम् = क् + ष् + इ + प् + तुम् = क् + ष् + ए + प् + तुम् = क्षेप् + तुम् = क्षेप्तुम् |

एवमेव लिप् → लेप्तुम् |

4.6 युध् + तुम् = योद्धुम्

अत्र य् + उ + ध् + तुम् = य् + ओ + ध् + तुम्

“पुगन्तलघूपधस्य च (7.3.86)” “सार्वधातुकार्धधातुकयोः॥ ७।३।८४” “… गुणः” (7.3.82)” इत्येभ्यः सूत्रेभ्यः उ-उपधयाः ओ-इति गुणः |

य् + ओ + ध् + तुम् = य् + ओ + ध् + धुम्

“झषस्तथोर्धोऽधः (8.2.40)” इति सूत्रेण

झषः (झष्-प्रत्याहारान्वितस्य वर्णस्य – झ्, भ्, घ्, ढ्, ध्) = झष उत्तरयोः

तथोः (त्-स्य वा थ्-स्य) धः (= ध्)

अत्र “ध् + तुम्” ध्-स्य उत्तरे त्-कारः | तस्य त्-कारस्य ध् |

य् + ओ + ध् + धुम् = य् + ओ + द् + धूम् = योद्धुम्

“संहितायाम् (8.2.108)”

झलां जश् झशि (8.4.53) एताभ्यां सूत्राभ्याम् –

झलाम् = झ्-तः ह् -पर्यन्तानां वर्णानाम्

झशि = (झश्–प्रत्याहारान्विते वर्णे सति – झ्, भ्, घ्, ढ्, ध्, ज् ब् ग् ड् द्)

जश् = (जश्-प्रत्याहारान्वितः वर्णः – ज् ब् ग् ड् द्)

अत्र ध् + धुम् = द् + धुम् = द्धुम्

एवमेव क्रुध् → क्रोद्धुम्, क्षुध् → क्षोद्धुम्, बुध् → बोद्धुम्, रुध् → रोद्धुम्, शुध् → शोद्धुम्

   4.7 तुष् + तुम्

4.7.1 तुष् + तुम् = त् + उ + ष् + तुम् = त् + ओ + ष् + तुम् = तोष् + तुम्

“पुगन्तलघूपधस्य च (7.3.86)” “सार्वधातुकार्धधातुकयोः॥ ७।३।८४” “… गुणः” (7.3.82)” एतेभ्यः सूत्रेभ्यः उ-उपाधयाः ओ-इति गुणः |

4.7.2 तोष् + तुम् = तोष्टुम्

“संहितायाम् (8.2.108)”

“स्तोः (8.4.40)” “ष्टुना ष्टुः (8.4.41)” एतेभ्यः सूत्रेभ्यः –

स्तोः = स्-कार-त्-कारवर्गयोः (सवर्गान्वितस्य वा तवर्गान्वितस्य वर्णस्य)

ष्टुना = षवर्गान्वितस्य वा टर्गान्वितस्य वर्णेन सह

ष्टुः = षवर्गान्वितः वा टर्गान्वितः (यथोचितः) वर्णः

अत्र तोष् + तुम् = तोष्टुम् इत्यत्र – षकारस्य षकारः एव तकारस्य तु टकारः |

4.7.3 एवमेव श्लिष् → श्लेष्टुम्, आदिश् → आदेष्टुम्, प्रविश् → प्रवेष्टुम्, क्लिश् → क्लेष्टुम्

    4.8 दृश् + तुम् = द्रष्टुम्

4.8.1 दृश् + तुम् = द् + ऋ + श् + तुम्

= द् + ऋ + अम् + श् + तुम्

“सृजिदृशोर्झल्यमकिति (6.1.57) मिदचोऽन्त्यात्परः (1.1.46) इति सूत्राभ्याम् –

      • सृजिदृशोर्झल्यमकिति = सृजिदृशोर् झलि अम् अकिति

        • सृज् (विसर्गे) दृशिर् (प्रेक्षणे) इत्येतयोः धात्वोः

        • झलि (झल्-आदौ)

        • अ-किति (यत्र कित् न) तदा

        • प्रत्यये परतः अम् आगमो भवति ।

      • मिदचोऽन्त्यात्परः = मित् अचः अन्त्यात् परः

        • म् इत् यस्य सः मित्

        • मिदचोऽन्त्यात्परः  = अचां सन्निविष्टानां यः अन्त्यः अच्, तस्मात् परः मित् भवति।

      • अत्र दृश् (दृशिर्) धातुः | तत्र झलि, अतः श्-आदौ अम् -आगमः | तेन द् + ऋ + अम् + श् → द् + र् + अम् + श् → म्-कारस्य इत् → द् + र् + अ + श् = द्रश्

      • दृश् + तुम् = द्रश् + तुम् →

“संहितायाम् (8.2.108)”

“स्तोः (8.4.40)” “ष्टुना ष्टुः (8.4.41)” एतेभ्यः सूत्रेभ्यः –

द्रश् + तुम् = द्रष्टुम् |

      • एवमेव सृज् → स्रष्टुम्

4.9 लिह् + तुम् → लेढुम्

    1. लिह् + तुम् = ल् + इ + ह् + तुम् = ल् + ए + ह् + तुम् = लेह् + तुम्

      1. “पुगन्तलघूपधस्य च (7.3.86)” “सार्वधातुकार्धधातुकयोः॥ ७।३।८४” “… गुणः” (7.3.82)” इत्येभ्यः सूत्रेभ्यः इ-उपधायाः ए-इति गुणः |

    2. लेह् + तुम् = लेढ् + तुम्

      1. हो ढः (8.2.31)

        1. अनुवृत्त्या सह  – झलि (8.2.26) अन्ते च (8.2.29) पदस्य (8.1.16) हो ढः (8.2.31) |

        2. ह्-कारः ढ्-कारः भवति झलि परे सति पदान्ते च |

        3. अत्र पदान्ते ह्-कारः, परे त्-कारः (झल्-प्रत्याहारान्वितः) | तेन ह्-कारस्य  ढ्-कारः |

    3. लेढ् + तुम् = लेढ् + धुम्

      1. झषस्तथोर्धोऽधः (8.2.40) = झषः तथोः धः अधः |

        1. झषः = झष्-प्रत्याहारान्वितस्य वर्णस्य परे

        2. तथोः = त्-कारे वा थ्-कारे सति त्-कारस्य वा थ्-कारस्य स्थाने

        3. धः = ध्-कारः = ध् इति आदेशः

        4. अधः = धा-धातुं वर्जयित्वा

      2. अत्र ढ्-कारस्य परे त्-कारः | तस्य त्-कारस्य स्थाने आदेशः ध् |

      3. अतः लेढ् + तुम् = लेढ् + धुम्

    4. लेढ् + धुम् = लेढ् + ढुम्

      1. ष्टुना ष्टुः (8.4.41)

        1. अनुवृत्त्या सह – “संहितायाम् (8.2.108)” “स्तोः (8.4.40)” “ष्टुना ष्टुः (8.4.41)”

        2. स्तोः = स्-कार-त्-कारवर्गयोः (सवर्गान्वितस्य वा तवर्गान्वितस्य वर्णस्य)

        3. ष्टुना = षवर्गान्वितस्य वा टर्गान्वितस्य वर्णेन सह

        4. ष्टुः = षवर्गान्वितः वा टर्गान्वितः (यथोचितः) वर्णः

        5. अत्र लेढ् + धुम् इत्यस्मिन् ढ् + ध् इति संहिता | ढ्-कारः ट्-वर्गान्वितः | ध्-कारः त्-वर्गान्वितः | अतः  ढ् + ध् + उम् = ढ् + ढुम् |

    5. लेढ् + ढुम् = लेढुम्

      1. ढो ढे लोपः (8.3.13)

        1. अनुवृत्त्या सह  – “संहितायाम् (8.2.108)” ढो ढे लोपः (8.3.13)

        2. ढ्-कारे परे सति ढ्-कारस्य लोपः भवति |

      2. लेढ् + ढुम् = लेढुम्

4.10 गम् + तुम् → गन्तुम्

  1. गम् + तुम् = गं + तुम्

    1. नश्चापदान्तस्य झलि (8.3.24) = नः च अपदान्तस्य झलि |

      1. अनुवृत्त्या सह  – “संहितायाम् (8.2.108)” मोऽनुस्वारः (8.3.23) नः च अपदान्तस्य झलि |

      2. अपदान्तस्य नकारस्य मकारस्य च झलि परे सति अनुस्वारः आदेशः भवति |

    2. अत्र म्-कारस्य परे झल्-प्रत्याहारान्वितः त्-कारः | म्-कारस्य स्थाने अनुस्वारः आदेशेन |

  2. गं + तुम् = गन् + तुम् = गन्तुम्

    1. अनुस्वारस्य ययि परसवर्णः (8.4.58)

      1. अनुवृत्त्या सह  – “संहितायाम् (8.2.108)” अनुस्वारस्य ययि परसवर्णः

      2. ययि परे सति अनुस्वारस्य परसवर्णः आदेशः नित्यं भवति |

        1. ययि परे सति = यदा  यय् परे अस्ति

          1. यय् = प्रत्याहारः

          2. अस्मिन् प्रत्याहारे य्-तः य्-पर्यन्ताः वर्णाः

          3. यय् = य् व् र् | ल् | ञ् म् ङ् ण् न् | झ् भ् | घ् ढ् ध् | ज् ब् ग् ड् द् | ख् फ् छ् ठ् थ् च् ट् त् | क् प् | = सर्वे वर्गीयवर्णाः अन्तस्थाः च |

        2. अनुस्वारस्य परसवर्णः = परसवर्णस्य अनुनासिकम्

    2. अत्र अनुस्वारस्य परे त् | त्-वर्गे अनुनासिकम् न् | तेन, गं + तुम् = गन् + तुम् = गन्तुम्

    3. एवमेव नम् → नन्तुम्, नियम् → नियन्तुम्, विरम् → विरन्तुम्, क्षम् → क्षन्तुम्

(5) सारांशतः धातूनां तुमन्तसिद्धेः क्रियाक्रमकर्याः व्याख्यायाः सोपानाः

     5.1 धातुः स्वरान्तः वा व्यञ्जनान्तः

     5.2 धातौ आगमः आदेशः वा भवति वा न वा |

  • धातोः आगमसहित-विरहितं वा आदेशसहित-विरहितं वा यद्रूपं तत् “अङ्गम्” |

  • अङ्गसिद्धेः एकानेकविधयः भवन्ति |

     5.3 स्वरान्तधातूनां अङ्गस्य तुम्-प्रत्ययेन सह केवलं संयोगः एव | संयोगेनैव तुमन्तसिद्धिः |

     5.4 व्यञ्जनान्तधातूनां अङ्गस्य सिद्धये उपधायाः विचारस्य महत्त्वम् |

     5.5 व्यञ्जनान्तधातूनां अङ्गस्य तुम्-प्रत्ययेन सह संहिता

  • संहितायाः एकानेकविधयः भवन्ति |

  • संहितया तुमन्तसिद्धिः |

(6)  धातूनां तुमन्तसिद्धेः क्रियाक्रमकर्याः व्याख्यायाः सोपानानां क्रमः अधिकेन समीचीनः भवितुम्

  1. स्वरान्तधातूनां  तुमन्तसिद्धेः यानि उदाहरणानि तेषाम् क्रमव्यवस्था करणीया |

  2. व्यञ्जनान्तधातूनां तुमन्तसिद्धेः यानि उदाहरणानि तेषामपि क्रमव्यवस्था करणीया |

-o-O-o-

Advertisements

6 thoughts on “तुमन्तसिद्धिः – ४

  1. साधु व्याख्यातम्। यथा भवता पाणिनीया प्रक्रिया दुर्ग्रहा, तथैवान्येषां अल्गोरिथम् व्याख्या द्रुग्रहा इति साम्यसिद्धेः। अपरा पाणिनीया व्याख्या।

  2. क्रियाक्रमकर्यायाः व्याख्यायाः ?

    किं रूपं – क्रियाक्रमकर्यायाः इति?

  3. “स्तोः (8.4.40)” “ष्टुना ष्टुः (8.4.41)” एतेभ्यः सूत्रेभ्यः –

    द्रश् + तुम् = द्रष्टुम् |

    अत्र षकार एव नास्ति, शकार एव। तत् कथमागतं ष्टुना योगः, येन तु इत्यत्र तकारस्य टकारः?

    एवमेव सृज् → स्रष्टुम्।

    व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राज-च्छ-शां षः ॥ पा.सू.८,२.३६ ॥

    इति शकारस्य षकारः, अनन्तरमेव तकारस्य षकारेण योगेन ष्टुत्वेन, टकारः। “स्थानीऽन्तरतमः” इति तकारस्य टवर्गादेशे, टकार एव।

    द्रष्+तुम् – द्रष्+टुम् – द्रष्टुमिति पाणिनीया प्रक्रिया।

    • एवमेव सृज् → स्रष्टुम्। इत्यत्रापि।

      सृज् इत्यत्र अमागमे, सृ+अ –
      सृ+अ+ज् + तुम् – “इको यणचि (६।१।७७)” इति ऋकारस्य यणादेशे, रेफादेशः।
      स्+र्+अ+ज् + तुम् =
      स्रज्+तुम् – पूर्ववत् सृज् धातोः जकारस्य षकारः आदेशः,
      स्रष्+तुम् – अनन्तरमेव तकारस्य ष्टुत्वेन टकारः।
      स्रष्टुम्।

      उभयत्रापि अमागमः, न तु आदेशः इति पाणिनीयाः।

      • “क्रियाक्रमकर्याख्या व्याख्या” = क्रियाक्रमकरी-आख्या व्याख्या
        क्रियाक्रमकरी = क्रियाणां क्रमं कुर्वती = defining a sequence of actions or of processes = algorithmic
        व्याख्या = procedure or process
        क्रियाक्रमकर्याख्या व्याख्या = algorithmic procedure or procedure named as (or called as) algorithm.
        In Sanskrit every word needs to be formatted. Formatting a word involves प्रक्रिया or क्रियाणां क्रमः
        Algorithm is a concept very common in computer programming. In Sanskrit also formatting words is very much algorithmic.
        A word becomes eligible for use in sentence only when it is properly formatted. A properly formatted word is called as पदम्
        One most common formatting is to affix a suffix प्रत्यय. In one सूत्रम् in अष्टाध्यायी पाणिनि says सुप्तिङन्तं पदम्

        सुप्-प्रत्यय-s are affixed to nouns, pronouns and adjectives to format words according to appropriate लिङ्ग-विभक्ति-वचन.
        तिङ्-प्रत्यय-s are affixed to धातु-s to format verbs क्रियापदानि to be with appropriate काल (or अर्थ), पुरुष and वचन.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s