आदचि सन्धयः

I came to this topic of आदचि सन्धयः as an extension of the study of आद्गुणः (6-1-87).

I coined this title आदचि सन्धयः as – आदचि = आत् + अचि.

Here आत् and अचि have the same meaning as of

  • आत् in  आद्गुणः (6-1-87) and
  • अचि in अचि (6-1-77)

Hence आत् अचि सन्धयः means those conjugations where

  • prior sound is आत् = अ-वर्णात्
  • the following sound is अचि, i.e. all vowels.

This becomes a study of 28 types of conjugations –

  • 4 types अ + अ,  अ +आ, आ + अ and आ + आ already covered under अकः सवर्णे दीर्घः
  • 8 types each in Tables 1, 2 and 3 below.

Coming to the point where this study was prompted –

“आद्गुणः (6-1-87)” अस्य सूत्रस्य विवरणे अस्ति निम्नोल्लेखितानां त्रयाणां सूत्राणां अनुवृत्तिः सूचिता –

  1. एकः पूर्वपरयोः (6-1-84)

  2. अचि (6-1-77)

  3. संहितायाम् (6-1-72)

अनुवृत्तिमनुसृत्य –

आद्गुणः = संहितायाम् आत् (परम्) अचि, पूर्वपरयोः एकः गुणः |

  • आत् – आदिति पञ्चमी न तु तपरकरणम् । आत् = अ-वर्णात् |

  • (परम्) = पश्चात्

  • अचि – “अच्”इत्यस्य प्रत्याहारस्य सप्तम्यां एकवचनम् | कस्मिन्नपि स्वरे भवति इत्यर्थः |

  • पूर्वपरयोः एकः = पूर्वं च परम् च मिलित्वा एकः एव

  • गुणः = यः एकः (आदेशः) भवति सः गुणः, गुणस्वभावी भवति |

    • गुणस्वभाविनौ द्वौ, ए च ओ च

      • अदेङ्गुणः (1-1-2) इति सूत्रात् अत् विहाय |

आद्गुणः = अ (/आ)-वर्णस्य पश्चात् कस्मिन्नपि स्वरे आगच्छति, तस्य अ (/आ)-वर्णस्य, पश्चादागच्छतः स्वरस्य च मेलनेन गुणस्वभावी एकादेशः (‘ए’ वा ‘ओ’ वा) भवति |

तथापि

1. अ (/आ)-वर्णस्य पश्चात् यदि अ (/आ)-इति सवर्णः स्वरः भवति तर्हि सः संधिः

  • “अकः सवर्णे दीर्घः (6-1-101)”  अनेन सूत्रेणैव |

  • यतः “विप्रतिषेधे परम् कार्यम् (1-4-2)”

  • “आद्गुणः (6-1-87)” “अकः सवर्णे दीर्घः (6-1-101)” एतयोः द्वयोः सूत्रयोः “अकः सवर्णे दीर्घः (6-1-101)”-इति सूत्रं परम् |

  • अतः अ (/आ)-वर्णस्य पश्चात् यदि अ (/आ)-इति सवर्णः स्वरः भवति तर्हि सः संधिः “अकः सवर्णे दीर्घः (6-1-101)” अनेनैव सूत्रेण कार्यः |

2. अ (/आ)-वर्णस्य पश्चात् आगच्छतः ऋक् (‘ऋ’ वा ‘लृ’ वा)-स्वरस्य तु “उरण् रपरः (1-1-51)”-इति सूत्रेण ‘र्’ वा ‘ल्’ भवति |

3. अ (/आ)-वर्णस्य पश्चात् आगच्छतः एच् (‘ए’ वा ‘ओ’ वा ‘ऐ’ वा ‘औ’)-स्वरस्य

  • “वृद्धिरेचि (6-1-88)”-इति सूत्रेण वृद्धिः भवति |

  • वृद्धिः तु “वृद्धिरादैच् (1-1-1)” सूत्रे संज्ञप्ता |

  • तेन अ (/आ)-वर्णस्य पश्चात् आगच्छतः  एच् (‘ए’ वा ‘ओ’ वा ‘ऐ’ वा ‘औ’)-स्वरस्य ‘ऐ’ वा ‘औ’ भवति |

सारांशतः –

“आद्गुणः (6-1-87)” इति सूत्रम् केवलं अ (/आ)-वर्णस्य पश्चात् इण् (‘इ’ वा ‘ई’ वा ‘उ’ वा ‘ऊ’)-स्वरे आगच्छति एव

  • सूत्रस्य विवरणे या “अचि (6-1-77)”-सूत्रस्य अनुवृत्तिः मानीता अस्ति, सा (‘इ’ वा ‘ई’ वा ‘उ’ वा ‘ऊ’)-स्वरात् अन्ये स्वरे आगच्छति नैव |

आदचि सन्धयः –

(1) “अकः सवर्णे दीर्घः (6-1-101)”-सूत्रेण ये सन्धयः भवन्ति ते https://grammarofsanskrit.wordpress.com/2012/04/22/study-of-अकः सवर्णे दीर्घः/ इत्यत्र विवृताः |

(2) “आद्गुणः (6-1-87)” सूत्रेण

Table 1

कयोः स्वरयोः संधिः

उदाहरणम्

कयोः स्वरयोः संधिः

उदाहरणम्

अ + इ = ए

देव + इन्द्रः = देवेन्द्रः

आ + इ = ए

महा + इन्द्रः = महेन्द्रः

अ + ई = ए

गण + ईशः = गणेशः

आ + + ई = ए

महा + ईशः = महेशः

अ + उ = ओ

सूर्य + उदयः = सूर्योदयः

आ + उ = ओ

महा + उत्सवः = महोत्सवः

अ + ऊ = ओ

एक + ऊनविंशतिः = एकोनविंशतिः

आ + ऊ = ओ

महा + ऊर्मिः = महोर्मिः

(3) “उरण् रपरः (1-1-51)”-इति सूत्रेण –

Table 2

कयोः स्वरयोः संधिः

उदाहरणम्

कयोः स्वरयोः संधिः

उदाहरणम्

अ + ऋ = अर्

सप्त + ऋषयः = सप्तर्षयः

आ + ऋ = अर्

महा + ऋषिः = महर्षिः

अ + ॠ = अर्

अत्र + ॠकारः = अत्रर्कारः

आ + ॠ = अर्

महा + ॠकारः = महर्कारः

अ + लृ = अल्

अत्र + लृकारः = अत्रल्कारः

आ + लृ = अल्

महा + लृकारः = महल्कारः

अ + ॡ = अल्

अत्र + ॡकारः = अत्रल्कारः

आ + ॡ = अल्

महा + ॡकारः = महल्कारः

While I have shown संधि-s with ॡ, there is a contention that such vowel does not exist. I would like to note here that transcription software do recognize this vowel and provide typing this vowel. This can be seen in following pictures.

Image 1 is from http://sa.wikipedia.org/wiki/सहाय्यम्:देवनागरीलिप्याम्_कथम्_लेखनीयम्%3F

vowels at Wiki

Image 2 is from http://www.aa.tufs.ac.jp/~tjun/sktdic/

Vowels tufs ac jp

(4) “वृद्धिरेचि (6-1-88)”-इति सूत्रेण –

Table 3

कयोः स्वरयोः संधिः

उदाहरणम्

कयोः स्वरयोः संधिः

उदाहरणम्

अ + ए = ऐ

एक + एकम् = एकैकम्

आ + ए = ऐ

सदा + एव = सदैव

अ + ऐ = ऐ

तव + ऐश्वर्यम् = तवैश्वर्यम्

आ + ऐ = ऐ

महा + ऐश्वर्यम् = महैश्वर्यम्

अ + ओ = औ

तस्य + ओदनः = तस्योदनः

आ + ओ = औ

गङ्गा + ओघः = गङ्गौघः

अ + औ = ओ

वन + औषधम् = वनौषधम्

आ + औ = औ

महा + औत्सुक्यम् = महौत्सुक्यम्

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s