तुमन्तसिद्धिः – ३

तुमन्तसिद्धिः – ३

In तुमन्तसिद्धिः – १, ten different patterns of तुमन्तसिद्धिः were detailed.

Those 10 patterns can be classified as follows –

  1. Those धातु-s, for which तुमन्तसिद्धिः is अतिसरला –

    1. १) आकारान्त-धातूनां तुमन्तसिद्धिः अतिसरला |

    2. ९) केषामपि व्यंजनान्त-धातूनां तुमन्तसिद्धिः अतिसरला |

यथा → मन् – मन्तुम् , हन् – हन्तुम् , शक् – शक्तुम्

  1. Those धातु-s, for which तुमन्तसिद्धिः after (तुम्-प्रत्ययपूर्वः) धातूनां `इ’-आगमः

    1. ३) ऊकारान्त-धातूनां तुम्-प्रत्ययस्य पूर्वं `इ’-आगमः |

    2. ५) दीर्घ-ऋकारान्तानां धातूनां तुम्-प्रत्ययपूर्वः `इ’-आगमः विकल्पेन दीर्घः |

    3. ६) चुरादि (दशम-गणीय) धातूनां च अन्येषां धातूनां प्रयोजकानां च तुम्-प्रत्ययस्य पूर्वं `इ’-आगमः |

    4. ७) केषामपि व्यंजनान्त-धातूनां तुम्-प्रत्ययस्य पूर्वं `इ’-आगमः |

  2. Those धातु-s, for which other inflections happen, when processing/obtaining तुमन्तसिद्धिः

    1. २) इकारान्तानां वा ईकारान्तानां वा उकारान्तानां वा ऋकारान्तानां वा धातूनां तुमन्तसिद्धौ अन्त्य-स्वरस्य गुणः |

    2. ४) एजन्तानां  (ए, ऐ, ओ, औ) धातूनां आ-आदेशः |

    3. ८) येषां व्यंजनान्त-धातूनां `इ’-आगमः  न भवति तद्विधानां केषामपि धातूनां अन्यदादेशः भवति |

    4. १०) केषामपि व्यंजनान्त-धातूनां उपान्त्य-ऱ्हस्व-स्वरस्य गुणः |

This threefold classification brings to notice significance of `इ’-आगमः ! Grammarians call that इ as इट् and in turn `इ’-आगमः as इडागमः !!

If a धातु gets `इ’-आगमः, this aspect of getting इट्  is identified as a typical characteristics of the  The धातु is then described as being a सेट् (स + इट्) धातु.

Conversely, धातु-s, which do not have the इडागम or सेट्-characteristics are अनिट् (अन् + इट्). In the threefold classification, the first one, where it is noted “तुमन्तसिद्धिः is अतिसरला”, the धातु-s there are obviously अनिट्. But in the classification (1b), there is a problem,  because of the phrase केषामपि व्यंजनान्त-धातूनां . This is apt to raise a query “for which धातु-s ?’

This will certainly confuse a student, since one needs to know whether a धातु is सेट् or अनिट्.

As if this is not enough, for some धातु-s, इडागमः is optional ! This optionality is called as वेट् (वा + इट्) As can be appreciated, वा connotes optionality !

I must confess that I did not know the significance of सेट् अनिट् or वेट् -characteristics of धातु-s. Getting to know the significance now, when studying तुमन्तसिद्धिः is something like a “realization” dawning unto me !!

I have noticed and noted these सेट् अनिट् or वेट् -characteristics, but only copiously, quoting them as were available in various sources, as in धातुपाठ-index. See → http://sanskritdocuments.org/all_sa/dhatupathaindex_sa.html

Interestingly, there are people who memorize and recite कारिका-s, which are verses enlisting धातु-s having सेट् अनिट् or वेट् -characteristics.

Following verses are available at https://groups.google.com/forum/#!topic/bvparishat/sgxwJi_KILQ

१. अ) अजन्तधातुषु अनिट् धातव:

श्विश्रिदीशीयुरुनुस्नुक्षुक्ष्णुवृङ् वृञ् विवर्जिता:।

एकस्वरा: आदिवर्णो दृदन्ता: धातवो अनिट:.॥

१. आ) हलन्ता: अनिट् धातव: १०२

शक्ल्, पच् मुचिरिच् वच् विच्, सि़च् प्रच्छित्यज़् निजिऱ् भज:।

भंज़् भुज़् भ्रस्ज़् मस्जियज़् युज़् रु़ज़् रंज़् विजिऱ् संजिसंज़् सृज:॥

अद् क्षुद्  खिद् छिद् तुदिनुद: पद्यभिद् विद्यतिर्विनद्।

शद् सदीन्विद्यति: स्कन्दि हदीक्रुध् क्षुधि बुध्यती॥

बन्धिर्युधिरुधीरा्धिव्यध् शुध: साधिसिध्यती।

मन्यहऩ् आव् क्षिप् छुपि तप् तिपस्तृप्यति दृप्यती.॥

लिप् लुप् वप् शप् स्वप् सृपि यभ् रभ् लभ् गम् नम् यमोरमि:.।

क्रुशिर्दंशि दिशी दृश् मृश् रिश् रुश् लिश् विश् स्पृश: कृषि:॥

त्विष् तुष् द्विष् दुष् पुष्य पिष् विष् शिषश् शुष् श्लिष्यतयोघसि:।

वसतिर्दह् दिहि दुहो नह् मिह् रुह् लिह् वहिस्तथा।

अनुदात्ता हलन्तेषु धातवो ध्वधिकं शतम्।

२. वेट्  धातव:

स्वरति: सूयते सूते पंचमे नवमे च धूञ्,

तनक्तिर्वृश्चतिश्चान्ता वनक्तिश्च तनक्तिना॥

मार्ष्टि मार्जतिजान्तेषु दान्ते क्लिद्यति स्यन्दते।

रध्यति: सेधतिर्धान्ते पांता: पंचैव कल्पते॥

गोपायति स्तृप्यतिश्च त्रपते दृप्यतिस्तथा।

मान्ते क्षाम्यति: क्षमते  अश्नुते क्लिश्नाति नश्यति॥

शान्तास्त्रयोधा क्षतिश्च नुष्कुष्णातिश्च तक्षति:।

त्वक्षतिश्च षकारान्ता:  ह्यथ हान्ताश्च गाहते॥

पदद्वये गूहतिश्च ऋकारो पान्त्यगर्हते।

तृहति तृंहति द्रुह्यतयो: बृहति मुह्यती॥

वृहिस्तृही स्निह्यस्नुह्या वेते वेट्का हि धातव:.।

अजंतानां तु थल्येव वेट् स्यादन्यत्र सर्वदा॥

-o-O-o-

Advertisements

तुमन्तसिद्धिः – २

तुमन्तसिद्धिः – २

Ten different patterns of तुमन्तसिद्धिः were detailed in the earlier post “तुमन्तसिद्धिः – १”. But basic purpose or concept of तुमन्तसिद्धिः  was not discussed there. The purpose and concept of तुमन्तसिद्धिः is contained in the पाणिनि-सूत्रम् ३।३।१० →

तुमुन्-ण्वुलौ क्रियायां क्रियार्थायाम् । ,

This सूत्रम् seems to be hinting of two processes or of two affixes, which help to obtain a word, which connotes the action क्रिया and/or  क्रियार्थ the purpose or desire of the action.

In English grammar word connoting an action is called an infinitive. For example, for the action of  going, we have the verb ‘to go’. In English also, the infinitive ‘to go’  connotes both the action of ‘going’ and also the purpose or reason for the action. For example, in a sentence “I get up to go”, the infinitive ‘to go’ connotes the action of going. Also, ‘to go’ connotes the purpose of getting up. I am just curiously wondering whether books of English grammar detail such dual function of an infinitive. पाणिनि-सूत्रम् ३।३।१० brings out the significance of तुमुन् very clearly.

In Sanskrit, a तुमन्त, such as वक्तुम् (from वच्, to speak, to say, to tell) can be interpreted in both the contexts of क्रिया and/or  क्रियार्थ . For example,

  1. बालोऽपि वक्तुं शक्नोति = Boy also can speak.

  2. सभायां वक्तुं इच्छामि = I wish to speak in the meeting

  3. भाषणं विचारान् वक्तुम् = Speech is for expressing thoughts.

The पाणिनि-सूत्रम् ३।३।१० also mentions another process or affix ण्वुल् . But ण्वुल्-affix is a separate, different affix. Its result is similar to that of तुमुन्, i.e. क्रिया and/or  क्रियार्थ .  However, since it is a separate, different affix, it need not be discussed here, when discussing तुमन्तसिद्धिः.

-o-O-o-

तुमन्तसिद्धिः – १

तुमन्तसिद्धिः – १

१) आकारान्त-धातूनां तुमन्तसिद्धिः अतिसरला |

यथा दा → दातुम्     पा → पातुम्   स्था → स्थातुम्   निर् + मा → निर्मातुम्   आ + ख्या → आख्यातुम्

२) इकारान्तानां वा ईकारान्तानां वा उकारान्तानां वा ऋकारान्तानां वा धातूनां तुमन्तसिद्धौ अन्त्य-स्वरस्य गुणः |

(इ → ए, ई → ए, उ → ओ, ऋ → अर्)

यथा जि-जेतुम्,    चि-चेतुम् , नी-नेतुम् ,  श्रु – श्रोतुम् ,    कृ-कर्तुम् ,  स्मृ-स्मर्तुम्

३) ऊकारान्त-धातूनां तुम्-प्रत्ययस्य पूर्वं `इ’-आगमः |

यथा – भू- भवितुम्, (भ् + ऊ → भव् → (+ इ) = भवि → (+ तुम् ); तथैव पू-पवितुम्, लू-लवितुम्

४) एजन्तानां  (ए, ऐ, ओ, औ) धातूनां आ-आदेशः |

यथा व्हे – व्हातुम् , ध्यै – ध्यातुम् , गै – गातुम्  , त्रै – त्रातुम् , सो – सातुम्

५) दीर्घ-ऋकारान्तानां धातूनां तुम्-प्रत्ययपूर्वः `इ’-आगमः विकल्पेन दीर्घः |

यथा तॄ -तरितुम् / तरीतुम् , कृ – करितुम् / करीतुम्

६) चुरादि (दशम-गणीय) धातूनां च अन्येषां धातूनां प्रयोजकानां च तुम्-प्रत्ययस्य पूर्वं `इ’-आगमः |

यथा → तड् – ताडयितुम् , कथ् – कथयितुम् , रच् – रचयितुम्

धातूनां प्रयोजकानां यथा → सम् + पद् – सम्पादयितुम् , वि + रम् – विरमयितुम्

७) केषामपि व्यंजनान्त-धातूनां तुम्-प्रत्ययस्य पूर्वं `इ’-आगमः |

यथा → श्वस् – श्वसितुम् , भाष् – भाषितुम् , पत् – पतितुम् , श्रम् – श्रमितुम्

८) येषां व्यंजनान्त-धातूनां `इ’-आगमः  न भवति तद्विधानां केषामपि धातूनां आदेशः भवति |

यथा → लभ् – लब्धुम् , दृश् – द्रष्टुम् , वच् – वक्तुम्

९) केषामपि व्यंजनान्त-धातूनां तुमन्तसिद्धिः अतिसरला |

यथा → मन् – मन्तुम् , हन् – हन्तुम् , शक् – शक्तुम्

१०) केषामपि व्यंजनान्त-धातूनां उपान्त्य-ऱ्हस्व-स्वरस्य गुणः |

यथा → सिच् – सेक्तुम् , दिश् – देष्टुम् , मुच् – मोक्तुम् , शुभ् – शोभितुम्

-o-O-o-

उपसर्गवृत्तिः

Dr. Dhaval Patel IAS, Patan, Gujarat (URL –  www.sanskritworld.in) came across a manuscript on the subject sometime in 2011. He painstakingly scripted it, doing also some editing. He had shared it with the Googlegroup, making also an appeal, “If there are any corrections or typological errors, bring it to my notice.”

In Sanskrit prefixes are used to bring a different meaning. It is rightly said –

उपसर्गेण धात्वर्थो बलादन्यत्र नीयते | प्रहाराहारसंहारविहारपरिहारवत् ||

Grammarians recognize 20 main prefixes. Basically the prefix brings forth a change in the meaning. But a given prefix may be used in different instances for different shades of meaning. It is not uncommon that more than one उपसर्ग-s may be used together. In this compilation different shades of meaning of a given prefix at different instances are detailed with examples.

  • I think it would be good to translate the example-sentences, so that the different shades of meaning will become clearer to English reader.
  • I propose to add the English translations and keep updating this post accordingly.
  • But the number of example-sentences (Total 223) is fairly large. So, the updating will take a long time and would happen from time to time.
  • When glancing through the examples, it also comes to mind that उपसर्ग-s are relevant not just for change of meaning of a verb धातु. They are relevant also for obtaining an adjective from a noun, e.g. बलम् –> प्रबलः मनुष्यः
  • Often one finds more than one उपसर्ग-s used jointly. Examples below do not cover change in meaning obtained by using more than one उपसर्ग-s jointly, as in अध्यायः (अधि + आ + अयः).
  • I did notice “17-11) आदानेऽभ्यवहरति ।” where more than one उपसर्ग-s अभि + अव are used together.
  • अपि is also listed as an उपसर्ग. It is known to be an अव्यय.  All the examples also seem to show its usage only as an अव्यय. Possibly, शापादपि शरादपि becomes a good example for अपि.
  • The examples of different उपसर्ग-s are not exactly in the order, in which they appear in the श्लोक below.

उपसर्गवृत्तिः

 Following श्लोक enumerates the 20 prefixes.

प्रप्रत्यपिपरापोपपर्यन्ववविसंस्वति ।

निर्न्युदधिदुरभ्याड्‌ उपसर्गाश्च विंशतिः ॥ १ ॥

(1) प्र – 15 example-sentences from 1-1 (2) प्रति – 11 example-sentences from 11-1 (3) अपि – 10 example-sentences from 13-1 (4) परा – 9 example-sentences from 2-1 (5) अप – 7 example-sentences from 3-1 (6) उप – 14 example-sentences from 20-1 (7) परि – 12 example-sentences from 19-1 (8) अनु – 10 example-sentences from 5-1 (9) अव – 7 example-sentences from 6-1 (10) वि – 21 example-sentences from 9-1 (11) सम् – 13 example-sentences from 4-1 (12) सु – 6 example-sentences from 15-1 (13) अति – 5 example-sentences from 14-1 (14) निर् – 8 example-sentences from 7-1 (15) नि – 14 example-sentences from 11-1 (16) उत् – 11 example-sentences from 16-1 (17) अधि – 6 example-sentences from 12-1 (18) दुर् – 5 example-sentences from 8-1 (19) अभि – 12 example-sentences from 17-1 (20) आ – 27 example-sentences from 10-1.

Total – 223 example-sentences

इति विंशति उपसर्गाः ।

 1) प्र । आदिकर्मोदीर्णभृशार्थैश्वर्यसंभववियोगनियोगतृप्तिशुद्धीच्छाशक्तिशांतिपूजाग्रदर्शनेषु प्रेत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

1-1) आदिकर्मणि प्रगतः प्रबलो राजा । –

1-2) उदीर्णे प्रबला मूषिका ।

1-3) भृशार्थे प्रवदन्ति दायादाः ।

1-4) ऐश्वर्ये प्रभुर्देवदत्तः ।

1-5) संभवे हिमवतो गंगा प्रभवति ।

1-6) वियोगे प्रेषितः।

1-7) नियोगे प्रयुक्तः ।

1-8) तृप्तौ प्रभुक्तं अन्नम्‌ ।

1-9) शुद्धौ प्रसन्नमुदकम्‌ ।

1-10) इच्छायां प्रार्थयते कन्याम्‌ ।

1-11) शक्तौ प्रशक्तो विद्यायाम्‌ ।

1-12) शांतौ प्रशांतोऽग्निः ।

1-13) पूजायां प्रांजलि स्थितः ।

1-14) अग्रे प्रवालो वृक्षस्य ।

1-15) दर्शने प्रलोकयति कन्याम्‌ ।

इत्ययं प्रोपसर्गः ॥ १ ॥

2) परा । वधमर्षणगतिविक्रमाभिमुख्यभृशार्थाप्राधान्यविमोक्षप्रातिलोम्येषु । परा इत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

2-1) वधे पराघातः ।

2-2) मर्षणे परामृषू ।

2-3) गतौ परागतः ।

2-4) विक्रमे पराक्रान्तः ।

2-5) अभिमुख्ये परावृत्तः ।

2-6) भृशार्थे पराजितः ।

2-7) अप्रधाने पराधीनः ।

2-8) विमोक्षे पराक्षतः ।

2-9) प्रातिलोम्ये पराङ्मुखः ॥ २ ॥

3) अप । वर्जनवियोगचौर्यहर्षनिर्द्देशविकृतिवारणविपर्ययेषु । अयमपोपसर्ग एतेष्वर्थेषु वर्तते ।

3-1) वर्जने अपसांकाश्यादृष्टो देवः ।

3-2) वियोगे अपयाति ।

3-3) चौर्ये अपहरति ।

3-4) निर्द्देशे अपदिशति ।

3-5) विकृतौऽपकृतम्‌ ।

3-6) वारण अपसरति ।

3-7) विपर्यये अपशब्दः ॥ ३ ॥

4) सम्‌ । योगऐक्यप्रभ्वसत्यसमंततोभावविभूषणाभिमुख्यश्लेषसिद्धिक्रोधस्वीकरणेषु । समयं उपसर्ग एतेष्वर्थेषु वर्तते ।

4-1) योगे संगतः पुत्रेण ।

4-2) वियोगे संवियुक्तः प्रियेण ।

4-3) ऐक्ये संप्रवदन्ति मुख्याः |

4-4) प्रभवे संभवति अग्निः काष्ठैः ।

4-5) सत्य संवादः ।

4-6) समक्षे संकथा वर्तते ।

4-7) समंतताभावे संकीर्णः ।

4-8) भूषणे संस्कृता कन्या ।

4-9) अभिमुख्ये संमुखं वर्तते ।

4-10) श्लेषे संधते कार्यम्‌।

4-11) सिद्धौ संसिद्धिः ।

4-12) क्रोधे संकृद्धः ।

4-13) स्वीकरणे संगृह्णाति ॥ ४॥

5) अनु । पश्चाद्भावाधिष्ठानसामीप्यस्वाध्यायानुबंधविसर्गसादृश्याभिमुख्यलक्षणहीनेषु । इत्यनूपसर्ग एतेष्वर्थेषु वर्तते ।

5-1) पश्चाद्भावे अनुरथं पदातयः ।

5-2) अधिष्ठाने अनुष्ठानं पाटलिपुत्रम्‌ ।

5-3) सामीप्ये अमुमेघं गगनम्‌ ।

5-4) स्वाध्याये व्याकरणमनुवदति ।

5-5) अनुबंधे अनुशयः ।

5-6) विसर्गे अनुज्ञातो गच्छति ।

5-7) सादृश्ये अनुकृतिः ।

5-8) आभिमुख्ये अनुवत्सो मातरं धावति ।

5-9) लक्षणे अनुवनमसौ निर्गतः ।

5-10) हीने अन्वर्जनं योद्धारः ॥ ५ ॥

6) अव । विज्ञानावलंबने शुद्धीषदर्थव्याप्तिपरिभववियोगेषु अवेत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

6-1) विज्ञाने अवगतोऽर्थः ।

6-2) अवलंबने अवष्टभ्य यष्टिं गच्छति ।

6-3) शुद्धौ अवदात्तं मुखम्‌ ।

6-4) ईषदर्थे अवभुक्तम्‌ ।

6-5) व्याप्तौ अवकीर्णं पांशुभिः ।

6-6) परिभवे अवहसति ।

6-7) वियोगे अवमुक्ता कान्ता ॥ ६ ॥

7) निर् । वियोगभृशार्थपापात्ययावधारणादेशातिक्रमलाभेषु निरित्युपसर्ग अयमेतेषु अर्थेषु वर्तते ।

7-1) वियोगे निःशल्यम्‌ ।

7-2) भृशार्थे निर्नीतः ।

7-3) पापे निर्मर्यादः ।

7-4) अत्यये निर्दाधं गमनम्‌ ।

7-5) अवधारणे निश्चितः ।

7-6) आदेशे निर्दिष्टः ।

7-7) अतिक्रमे निःक्रांतः ।

7-8) लाभे निर्विशेषः ॥ ७ ॥

8) दुर् । ईषदर्थकुत्सनवैवर्ण्यासंपत्यलाभेषु दुरित्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

8-1) ईषदर्थे दुर्गृहीतः ।

8-2) कुत्सने दुर्बलः ।

8-3) वैवर्ण्ये दुर्वर्णः ।

8-4) असंपत्तौ दुर्गतः ।

8-5) अलाभे दुःप्राप्यः ॥ ८ ॥

9) वि । नानार्थवियोगातिशयभयदूरार्थभृथार्थकलहैश्वर्यमोहपौशून्योत्कर्षकुत्सनेषदर्थानाभिमुख्यानवस्थानाप्राधान्यदर्शनशौर्येषु । वि इत्ययं उपसर्ग एतेष्वर्थेषु वर्तते ।

9-1) नानार्थे विचित्रा कृतिः पाणिनेः ।

9-5) वियोगे वियुक्तः ।

9-6) अतिशये विकीर्णः ।

9-7) भये विभीषणः ।

9-8) ईषदर्थे विप्रकृष्टमध्वानम्‌ ।

9-9) भृशार्थे विसुद्धा नदी ।

9-10) कलहे विभज्य धनम्‌ ।

9-11) ऐश्वर्ये विभुर्देवदत्तस्य ।

9-12) मोहे विमनस्कः ।

9-13) पैशून्ये विकरः ।

9-14) उत्कर्षे विस्मितो देवदत्तः ।

9-15) कुत्सने विरुपः ।

9-16) ईषदर्थे विलोपितः ।

9-17) अनाभिमुख्ये विमुखः ।

9-18) अनवस्थाने विभ्रांतः ।

9-19) अप्रधान्ये विनिष्टः ।

9-20) दर्शने विलोकनीया कन्या ।

9-21) शौर्ये विक्रांतः ॥ ९ ॥

10) आड्‌ । प्राप्तीच्छाबंधनभयवाक्यश्लेषाभिविधिसाध्यकृच्छ्रादिकर्मग्रहणनिलयसामीप्यविक्रियानिमंत्रणनिवृत्याशीरादानांतर्भावस्पर्धाभिमुख्योर्ध्वकर्मविस्मयप्रतिष्ठानिर्द्देशशक्तिमर्यादासु ।

आड्‌ इत्युपसर्ग एतेष्वर्थेषु वर्तते । तद्यथा ।

10-1) प्राप्तौ आसादितमनेन ।

10-2) इच्छायां आकांक्षति ।

10-3) बंधने आमुञ्चति कवचम्‌ ।

10-4) भये आकंपितः ।

10-5) वाक्ये आज्ञापयति ।

10-6) अभिविधौ आकृमारं यश पाणिनेः ।

10-7) श्लेषे आलिंगयति ।

10-8) साध्ये आचरति कपटेन ।

10-9) कृच्छ्रे आपद्गतः ।

10-10) आदिकर्मणि आरभते कर्तुम्‌ ।

10-11) ग्रहणे आलंबते ।

10-12) निलये आवसथम्‌ ।

10-13) सामीप्ये आसन्नं कल्याणम्‌ ।

10-14) विक्रियायां आस्वादयति ।

10-15) निमंत्रणे आमंत्रणम्‌ ।

10-16) निवृत्तौ आरमते ।

10-17) आशिषि आशास्ते ।

10-18) आदाने रसायनम्‌ ।

10-19) अंतर्भावे आपीतमुदकम्‌ सिकताभिः ।

10-20) स्पर्धायां मल्लो मल्लमाह्वयति ।

10-21) आभिमुख्ये आगच्छति देवदत्तः ।

10-22) उर्ध्वकर्मणि आरोहति हस्तिपकः ।

10-23) विस्मये आनंदिताः ।

10-24) प्रतिष्ठायां आस्पदम्‌ ।

10-25) निर्देशे आदिशति ।

10-26) शक्तौ आक्रमते गगनं चंद्रमाः ।

10-27) मर्यादायां आइलावर्धनात्संपन्नः शालयः ॥ १० ॥

11) नि । निवेशराशिभृशार्थाधोभावनिवासद्दारकर्मदर्शनोपरमबंधनकौशल्यांतर्भावसानीधमोक्षाश्रयेषु निरित्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

11-1) निवेशे निवेशितम्‌ ।

11-2) राशौ निकरो धान्यस्य ।

11-3) भृशार्थे निगृहीतः ।

11-4) अधोभावे निपतितः ।

11-5) निवासे निवसितो नरम्‌ ।

11-6) दारकर्मणि निविष्टो देवदत्तः ।

11-7) दर्शने निशामयति रुपम्‌ ।

11-8) उपरमे निवृतः ।

11-9) बंधने नियमितः ।

11-10) कौशल्ये निपुणः ।

11-11) अंतर्भावे निपीतमुदकम्‌ सिकताभिः ।

11-12) सामीप्ये निकृष्टकालः ।

11-13) मोक्षे निसृष्टः ।

11-14) आश्रये निलयः ॥ ११ ॥

12) अधि । वशीकरणाधिष्ठानाध्ययनैश्वर्यस्मरणाधिकेषु अधि इत्ययं उपसर्ग एतेष्वर्थेषु वर्तते ।

12-1) वशीकरणे अधिकरोति अर्थी ।

12-2) अधिष्ठाने[1] अधिगुणः । [See Footnote 1]

12-3) अध्ययने अधीते व्याकरणम्‌ ।

12-4) ऐश्वर्ये अधिपतिः ।

12-5) स्मरणे क्षेत्रमधिस्मरति ।

12-6) आधिक्ये अधिक्षेत्रे राज्ञः ॥ १२ ॥

13) अपि । संभावनानिवृत्तिअपेक्षासमुच्चयसंभवगर्हाशीरमर्षणप्रश्नेषु । अपीत्ययं उपसर्ग एतेष्वर्थेषु वर्तते ।

13-1) संभावने अपि सिंचेन्मूलसहस्रम्‌ ।

13-2) निवृत्तौ मांसमपि जुह्यात्‌[2] । [See Footnote 2]

13-3) अपेक्षायां अथायमपि विद्वान्‌ ।

13-4) समुच्चये त्वहमपि अयमपि ।

13-5) संभवे अपि संभवति ।

13-6) (अहिः स्तुहिषु)[3] गर्हायां अपि वृषलं याचयेत्‌ । [See Footnote 3]

13-7) आशिषि अपि वर्षं शतं जीयाः ।

13-8) अमर्षणे अपि भजन्न नमेत्‌ ।

13-9) भूषणे अपि नह्वति[4] हारम्‌ । [See Footnote 4]

13-10) प्रश्ने अपि गच्छति ॥ १३ ॥

14) अति । अतिशयभृशार्थातिक्रांतिअतिक्रमणवृद्धिषु । अति इत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

14-1) अतिशयो अतिमानुषं यस्य विज्ञानम्‌ ।

14-2) भृशार्थे अतितप्ता आयः ।

14-3) अतिक्रान्तौ अतिरथिम्‌ ।

14-4) अतिक्रमणे हस्तिनातिक्रमति[5] । [See Footnote 5]

14-5) वृद्धौ अतिमेघं गगनम्‌ ॥ १४ ॥

15) सु । पूजाभृशार्थानुमतिसमृद्धिप्रशंसाकृच्छ्रेषु । सु इति अयमुपसर्ग एतेष्वर्थेषु वर्तते ।

15-1) पूजायाम्‌ सुसाधुः ।

15-2) भृशार्थे सुतप्ता आयः ।

15-3) अनुमतौ सुकृतम्‌ ।

15-4) समृद्धौ सुमुद्रम्‌ ।

15-5) प्रशंसायां सुकृषिम्‌ ।

15-6) कृच्छ्रे सुदुःकरः ॥ १५ ॥

16) उत्‌ । प्राबल्यवियोगोर्ध्वकर्मलाभप्रकाशास्वस्थमोक्षाभावबंधनप्राधान्यशक्तिषु । उत्‌ इत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

16-1) प्राबल्ये उद्विलसत्सर्पः ।

16-2) वियोगे उत्पथेन गच्छति ।

16-3) उर्ध्वकर्मणि उत्तिष्ठति शयनात्‌ ।

16-4) लाभे उत्पन्नं द्रव्यम्‌ ।

16-5) प्रकाशे उच्चरन्ति नभसि मेघाः ।

16-6) अस्वस्थे उत्सुकः[6] । [See Footnote 6]

16-7) मोक्षे उद्वासः ।

16-8) अभावे उत्पथः ।

16-9) बंधने उद्बद्धा कन्या ।

16-10) प्राधान्ये उत्कृष्टः ।

16-11) शक्तौ उत्साहः ॥ १६ ॥

17) अभि । पूजाआभिमुख्यभृशार्थसादृश्यप्रयोगव्याप्तिनृत्तसारुप्यवचनादानाम्नायेषु । अभि इति अयमुपसर्ग एतेषु अर्थेषु वर्तते ।

17-1) पूजायां अभिवादयति ।

17-2) आभिमुख्ये अभिमुखं स्थितः ।

17-3) भृशार्थे अभिरतः ।

17-4) सादृश्ये अभिज्ञातः ।

17-5) प्रयोगे अभिजानाति ।

17-6) इच्छायां अभिलषति ।

17-7) व्याप्तौ अभिस्यन्दः ।

17-8) नृत्ते अभिनयः ।

17-9) सारुप्ये अभिरुपः ।

17-10) वचने अभिवचनम्‌ ।

17-11) आदानेऽभ्यवहरति ।

17-12) आम्नाये अभ्यस्यति ॥ १७ ॥

18) प्रति । सादृश्यादानहिंसातद्योगविनिमयप्रतिनिधिनिवृत्तिव्याध्याभिमुख्यव्याप्तिवारणेषु । प्रत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

18-1) सादृश्ये प्रतिकृतं देवदत्तेन ।

18-2) आदाने प्रतिगृह्णाति ।

18-3) हिंसायां प्रतिहरति ।

18-4) तद्योगे प्रतिपन्नमनेन ।

18-5) विनिमयो तोलनघृतं प्रतिददाति ।

18-6) प्रतिनिधौ प्रतिच्छंदः ।

18-7) निवृत्तौ प्रतिक्रांतः ।

18-8) व्याधौ प्रतिश्यायः ।

18-9) अभिमुख्ये प्रतिसूर्ये गच्छति ।

18-10) व्याप्तौ प्रतिकीर्णं पांशुभिः ।

18-11) वारणे प्रतिनिवृत्तः ॥ १८ ॥

19) परि । समंततोभावव्याप्ति[7]दोषाख्यानोपरभूषणपूजावर्जनालिंगननिवसनव्याधिशोकवीप्सासु ।

परीति अयमुपसर्ग एतेष्वर्थेषु वर्तते ।

19-1) समंततोभावे परिक्रमति[8] ।

19-2) व्याप्तौ परिगतोऽग्निना ग्रामः ।

19-3) दोषाख्याने परिभ्रमति ।

19-4) उपरमे परिपूर्णः कुंभः ।

19-5) भूषणे परिष्करोति कन्याम्‌ ।

19-6) पूजायां परिचर्या ।

19-7) वर्जने परित्रिगर्तेभ्यावृष्टो देवदेवः ।

19-8) आलिंगने परिष्वजते कन्याम्‌ ।

19-9) निवसनो परिधानम्‌ ।

19-10) व्याधौ परिगता स्फोटकाः ।

19-11) शोके परिदेवना ।

19-12) वीप्सायां वृक्षं वृक्षं परिसिंचति ॥ १९ ॥

20) उप । सामीप्यासामर्थ्यव्याप्त्याचार्यकरणदोषाख्यानदानदाक्षिण्यवीप्सारंभपूजातद्योगओरत्ययमरणेषु ।

उप इति उपसर्ग एतेष्वर्थेषु वर्तते ।

20-1) सामीप्ये उपकुंतम्‌ ।

20-2) सामर्थ्ये उपकरोति देवदत्तः ।

20-3) व्याप्तौ उपकीर्णं पांशुभिः ।

20-4) आचार्यकरणे उपदिशति शिष्येभ्यः ।

20-5) दोषाख्याने उपघातः ।

20-6) दाने उपहरत्यर्थं देवदत्तायाः ।

20-7) दाक्षिण्ये उपचारः ।

20-8) वीप्सायां उपयाचते ।

20-9) आरंभे उपक्रमते भोक्तुम्‌ ।

20-10) पूजायां उपासितः ।

20-11) तद्योगे उपपन्नं ध्यानमाह ।

20-12) प्रत्यये उपपन्नं धनम्‌ ।

20-13) शरणे उपगतो देवदत्तः ।

20-14) प्रत्यये उपसर्गधर्मः ॥ २० ॥

इति उपसर्गवृत्तिः समाप्ता ॥


Following are foot-notes by Dr. Dhawal Patel

[1] पाठे आर्त्विकम्‌

[2] जुह्वात्‍ वा

[3] न सुसंबद्धः

[4] ???

[5] पाठे हस्तिनाक्रामति

[6] पाठे उत्सकः

[7] पाठे व्याग्नि

[8] पाठे परित्रमति

-o-O-o-