How words are formed in Sanskrit – Specimen case-study from root verb “कृ”

How words are formed in Sanskrit

“कथं भवन्ति पदानि ?”

पदानि इति ते शब्दाः ये वाक्येषु संभाषणेषु च प्रयुज्यन्ते । कित्येकानि पदानि शब्दकोषेषु न प्राप्यन्ते । अतः “कथं भवन्ति पदानि ?” अस्य विषयस्य अभ्यासः आवश्यकः ।
अत्र “कृ” धातुतः प्रापणीयानां शब्दानां कश्चिदभ्यासः । तेन “कथं भवन्ति पदानि ?” इत्यस्य विषयस्यापि ।
Sanskrit is a language where you cannot find every other word in a dictionary. Before referring to a dictionary, one needs to know how words are formed in Sanskrit. There are many words derived from a root verb. Here is a study detailing how thousands (really many, many thousands) of words would be obtained from a root verb “कृ”. That becomes a specimen case-study of how words are formed in Sanskrit.
नीचैः स्थाने स्थाने “(अष्टाध्यायी-सूत्रम् ____ )”-इति निर्देशः आयोजितः अस्ति । तथापि अस्मिन्विषये अहम् अज्ञानी अस्मि । अतः रिक्तानि स्थानानि । The science of word-formation is part of grammar of the language, especially for Sanskrit. Most respected grammar of Sanskrit is अष्टाध्यायी of पाणिनी. Frankly, I have scant knowledge of अष्टाध्यायी. Hence I have left blank spaces to fill in the reference of appropriate सूत्रम्, which governs the particular word-formation.
श्रीमद्भगवद्गीतायाः केचन उदाहरणान्यपि उद्धृतानि सन्ति । तेन इदं अध्ययनं रोचकं आश्वासकं च भवति इति मे मतिः । श्रीमद्भगवद्गीता is full of words derived from the root verb कृ . And at many places one will find quotations from Geetaa, where particular word is used. This will make reading interesting.

१ “कृ”-धातुनः गण-पद-विचारः (अष्टाध्यायी- धातुपाठात्)

  • कृ भ्वादि (१) अनिट् उ । कृञ् करणे । = to act
  • कृ स्वादि (५) अनिट् उ । कृञ् हिंसायाम् । = to cause harm
  • कृ तन्वादि (८) अनिट् उ । डुकृञ् करणे । = to do, to act

२ “कृ”धातुतः उपसर्गैः सह नूतनाः धातवः भवन्ति । (अष्टाध्यायी-सूत्रम् ____ )

  • उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहार-संहार-प्रहार-प्रतिहारवत्
  • उपसर्गाः (अष्टाध्यायी-सूत्रम् ____ )
    • अ, अति, अधि, अन्, अनु, अप, अभि, अव, (८)
    • आ (१)
    • उत्, उप, (२)
    • दुः, (दुर्, दुष्, दुस्) (१)
    • नि, नि: (निर्, निष्, निस्) (२)
    • परा, परि, प्र, प्रति, (४)
    • वि, (१)
    • सम्, सु (२)
  • केचन अन्ये उपसर्गाः अपि “कृ” धातुना सह प्रयुज्यन्ते यथा अलंकृ, तिरस्कृ, उपरिकृ, स्वीकृ, धिक्कृ , चमत्कृ, स्पष्टीकृ, बहिष्कृ, परिष्कृ । (अष्टाध्यायी-सूत्रम् ____ )
  • द्वि-त्रि-उपसर्गाः संमिलित्वापि प्रयुज्यन्ते यथा अनधिकृ, निराकृ । (अष्टाध्यायी-सूत्रम् ____ )

३ क्रियापदानि ।

  • यदि धातुः कस्मिन्श्चित् गणे परस्मैपदी वा आत्मनेपदी भवति, दश-लकारेषु प्रथम-मध्यम-उत्तम-पुरुषभेदैः एक-द्वि-बहु-वचनभेदैः च नवति (९०) पदानि । (अष्टाध्यायी-सूत्रम् ____ )
  • यदि धातुः कस्मिन्श्चित् गणे उभयपदी भवति तदा तस्मात् शताधिकाशीति (१८०) पदानि भवन्ति ।
  • लट् वर्तमाने लेट् वेदे भूते लुङ् लङ् लिटस्तथा । विध्याशिषौ लिङ्लोटौ लुट् लृट् लृङ् च भविष्यतः ॥
    • लट् वर्तमाने – नैव किञ्चित्करोमीति (गीता ५-८), सङ्गं त्यक्त्वा करोति यः (गीता ५-१०), योगिनः कर्म कुर्वन्ति (गीता ५-११)
    • लुङ् भूते
    • लङ् भूते- किमकुर्वत सञ्जय (गीता १-१)
    • लिट् भूते
    • लुट् भविष्ये
    • लृट् भविष्ये
    •  लृङ् भविष्ये – संग्रामं न करिष्यसि (गीता २-३३)
    • लेट् वेदे – यथेच्छसि तथा कुरु (गीता १८-६३)
    • लिङ् विध्याशिषौ – कुर्याद्विद्वांस्तथासक्तः (गीता ३-२५)
    • लोट् विध्याशिषौ
  • कर्मणि-प्रयोगे धातुतः आत्मनेपदीनि चतुर्थ-गणसमानानि भवन्ति । (अष्टाध्यायी-सूत्रम् ____ )
    • दश-लकारेषु प्रथम-मध्यम-उत्तम-पुरुषभेदैः एक-द्वि-बहु-वचनभेदैः च (९०) पदानि ।
  • प्रयोजकार्थे धातुतः दशमगणसमानानि । (अष्टाध्यायी-सूत्रम् ____ )
    • दश-लकारेषु प्रथम-मध्यम-उत्तम-पुरुषभेदैः एक-द्वि-बहु-वचनभेदैः च (९० अथवा १८०) पदानि ।

४ अव्ययानि

  • त्वान्त-वा-ल्यबन्त भूतकालवाचकानि कृत्वा, निष्कृत्य, उपकृत्य इ. । (अष्टाध्यायी-सूत्रम् ____ )
    • सुखदुःखे समे कृत्वा (गीता. २-३८)
  • तुमन्त प्रयोजनार्थीनि  कर्तुम्, उपकर्तुम्, इ. । (अष्टाध्यायी-सूत्रम् ____ )
    • अहो बत महत्पापं कर्तुं व्यवसिता वयम् (१-४५)

५ विशेषणानि

  • भूतकालवाचकं “कृत”-इ. (अष्टाध्यायी-सूत्रम् ____ )
    • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
      • अहन्यहनि बोद्धव्यं किमेतत् सुकृतं कृतम्
    • “कृत’-शब्दतः उपपदात्मकैः प्रत्ययैः विशेषणानि यथा कृतज्ञ, कृतघ्न । (अष्टाध्यायी-सूत्रम् ____ )
      • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
  • य-तव्य-अनीय-प्रत्ययैः विध्यर्थवाचकानि यथा कार्यम्, कर्तव्यम्, करणीयम् । (अष्टाध्यायी-सूत्रम् ____ )
    • लिङ्ग-विभक्ति-वचन-भेदैः प्रत्येकस्य (७२) पदानि ।
    • गीता सुगीता कर्तव्या ।
  • “अन्”-प्रत्ययेन  कर्तरि-वर्तमानकालवाचकानि यथा कुर्वन्, कुर्वती । (अष्टाध्यायी-सूत्रम् ____ )
      • लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
      • कुर्वन्नपि न लिप्यते (गीता ५-७)
    • प्रयोजकादपि यथा कारयन्
      • लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
      • नैव कुर्वन् न कारयन् (गीता ५-१३)
  • ईय-प्रत्ययेन “क्रीय” (अष्टाध्यायी-सूत्रम् ____ )
      • लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
    • उपसर्गैः सह अन्यानि यथा सक्रीय ।
      • लिङ्ग-विभक्ति-वचन-भेदैः प्रत्येकस्य (७२) पदानि ।
  • “तृ”-प्रत्ययेन कर्तृ-कर्ता-कर्त्री-इत्यादीनि (अष्टाध्यायी-सूत्रम् ____ )
      • लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
      • तस्य कर्तारमपि मां … (गीता ४-१३)
    • उपसर्गैः सह अन्यानि
      • लिङ्ग-विभक्ति-वचन-भेदैः प्रत्येकस्य (७२) पदानि ।
      • विध्यकर्तारमव्ययम्  (गीता ४-१३)
  • इच्छार्थि विशेषणम् “चिकिर्षु” । (अष्टाध्यायी-सूत्रम् ____ )
    • लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
    • चिकिर्षुर्लोकसंग्रहम् (गीता ३-२५)

६ नामानि

  • मन्-प्रत्ययेन नपुंसकलिङ्गि नाम “कर्मन्” (अष्टाध्यायी-सूत्रम् ____ )
      • विभक्ति-वचन-भेदैः (२४) पदानि
      • कर्मणो ह्यपि बोद्धव्यं (गीता ४-१७)
    • उपसर्गैः सह अन्यानि नामान्यपि  । विकर्म, अकर्म
      • विभक्ति-वचन-भेदैः प्रत्येकस्य नाम्नः (२४)  पदानि
      • बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं (गीता ४-१७)
  • क्रिया, कृति, कृत्य इत्यादीनि नामान्यपि । (अष्टाध्यायी-सूत्रम् ____ )
      • विभक्ति-वचन-भेदैः प्रत्येकस्य नाम्नः (२४)  पदानि
    • उपसर्गैः सह अन्यानि नामान्यपि यथा प्रक्रिया,  ।
      • विभक्ति-वचन-भेदैः प्रत्येकस्य नाम्नः (२४)  पदानि
  • अन-प्रत्ययेन नपुंसकलिङ्गि नाम कृ + अन = करण (अष्टाध्यायी-सूत्रम् ____ )
      • विभक्ति-वचन-भेदैः (२४) पदानि
      • करणं च पृथग्विधम् (गीता १८-१४)
    • उपसर्गैः सह अन्यानि नामान्यपि यथा उपकरण (नपुंसकलिङ्गि)
      • विभक्ति-वचन-भेदैः प्रत्येकस्य नाम्नः (२४)  पदानि
    • प्रयोजकात् नपुंसकलिङ्गि नाम कारण (अष्टाध्यायी-सूत्रम् ____ )
      • विभक्ति-वचन-भेदैः (२४) पदानि
      • पञ्चैतानि महाबाहो कारणानि निबोध मे (गीता १८-१३)

७ तद्धितानि

  • विशेषणानि ।
    • “कर्मन्”-नाम्नः “ज”-उपपदेन (अष्टाध्यायी-सूत्रम् ____ )
      • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
      • “कर्मजान् विद्धि तान् सर्वान्” (गीता ४-३२)
    • “क्रिया”-शब्दतः वत्-प्रत्ययेन क्रियावत्-इति विशेषणम् । (अष्टाध्यायी-सूत्रम् ____ )
      • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
      • यः क्रियावान् स पण्डितः ।
    • “कृति”–शब्दतः न्-प्रत्ययेन कृतिन््-इति विशेषणम् । (अष्टाध्यायी-सूत्रम् ____ )
      • लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
      • उपसर्गैः सह अन्यानि
        • लिङ्ग-विभक्ति-वचन-भेदैः प्रत्येकस्य (७२) पदानि ।
        • न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः (गीता ७-१५)
    • “मत्”-प्रत्ययेन विशेषणम् “क्रियमाण” । (अष्टाध्यायी-सूत्रम् ____ )
      • लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
        • प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः (गीता ३-२७)
      • उपसर्गैः सह अन्यानि
        • लिङ्ग-विभक्ति-वचन-भेदैः प्रत्येकस्य (७२) पदानि ।
    • “कर्तृ”-तः त्व-प्रत्ययेन कर्तृत्व इति नपुंसकलिङ्गि नाम । (अष्टाध्यायी-सूत्रम् ____ )
      • तस्मात् विभक्ति-वचन-भेदैः (२४) पदानि ।
      • न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः (गीता ५-१४)
    • “चिकिर्षु”-विशेषणात् भाववाचकं स्त्रीलिङ्गि नाम चिकीर्षा । (अष्टाध्यायी-सूत्रम् ____ )
      • तस्मात् विभक्ति-वचन-भेदैः (२४) पदानि ।

कुलसङ्ख्या =

८ कृ-धात्वर्थका: प्रत्ययाः

  • सक्षमतार्थी विशेषणात्मक:   प्रत्ययः “कृत्”
    • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
    • स युक्तः कृत्स्नकर्मकृत् (गीता ४-१८)
  • विशेषणात्मक: “क”-प्रत्ययः यथा नाशक ।
    • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
  • विशेषणात्मक: “कर”-प्रत्ययः यथा सुखकर ।
    • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
  • नामात्मकः “कर”-प्रत्ययः यथा संकर (पुल्लिङ्गि)
    • विभक्ति-वचन-भेदैः पदानि ।
    • जायते वर्णसंकरः (गीता १-४१)
  • नामात्मकः “कार”-प्रत्ययः यथा चर्मकारः, प्रतिकारः ।
    • विभक्ति-वचन-भेदैः पदानि ।
  • विशेषणात्मक: “कारक”-प्रत्ययः  यथा सुखकारक ।
    • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
  • विशेषणात्मकः “कारिन्”-प्रत्ययः यथा हितकारि ।
    • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
  • विशेषणात्मकः “कारिक”-प्रत्ययः यथा अलंकारिक, चमत्कारिक ।
    • लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
Advertisements

3 thoughts on “How words are formed in Sanskrit – Specimen case-study from root verb “कृ”

  1. कृ भ्वादि (१) अनिट् उ । कृञ् करणे । = to act
    कृ स्वादि (५) अनिट् उ । कृञ् हिंसायाम् । = to cause harm
    कृ तन्वादि (८) अनिट् उ । डुकृञ् करणे । = to do, to act)

    I could not find the first in भ्वादि, but only the next two in the धातुपाठ of Madhava.

    डु) कृञ् कृ ञ् करणे 8 तनादि 12 510-518
    कृञ् कृ ञ् हिंसायाम् 5 स्वादि 7 448

    Can you give the reference in भ्वादि and its forms conjugated?

    The first in the 8th conjugation group and specially prescribed. forms. The last has the forms:

    कृणोति – कृणुतः – कृण्वन्ति etc.

    • नमो नमः श्रीमन् “भट”-महोदय !
      भवतः अवलोकनं प्राप्तम् । “कृ”-धातोः विवरणं मया तु http://sanskritdocuments.org/all_sa/dhatupatha_index_svara_sa.html एतस्मात् जालपुटात् प्राप्तमासीत् –
      न जानामि केन आधारेण एवं विवृतमस्ति तस्मिन् जालपुटे ।

      • धन्यवादाः। ते एव प्रष्टव्या।

        माधवीयधातुपाठे धातुद्वयमेव वर्तते, सिद्धान्तकौमुद्यां च न रूपाणि प्रदर्शितानि।

        तत्र रूपभेदेन धातुत्रयं नास्तीति सत्यम्। परं कैश्चित् कल्पितः पाठः भ्वादौ, व्याख्यानेषु च नास्ति। इति सत्यम्।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s